________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१३२ ॥
उच्चितेषु च पुष्पेषु, तद्वियोगरुजार्दिता । अरोदीदिव वासन्ती, मञ्जुगुञ्जन्मधुव्रता ॥१००३ ।। मल्लीमुच्चित्य गच्छन्ती, काचित् तल्लावाससा । तस्थौ निषिध्यमानेव, तया माऽन्यत्र गा इति ।। १००४ ।। चम्पकं चिन्वती काचिदलियूनोत्पतिष्णुना । दश्यते स्माऽधरदले, क्रुधेवाऽऽश्रयभङ्गत्तः ।। १००५ ।। उच्चैरुच्चैः सुमनसः, काचिदुत्क्षिप्तदोर्लता । जहार मनसा सार्द्ध, यूनां दोर्मूलदर्शिनाम् ।। १००६ ।। प्रत्यग्रपुष्पस्तबकसनाथीकृतपाणयः । रेजुः पुष्पावचायिन्यो, जङ्गमा इव वल्लयः ।। १००७ ।। प्रतिशाखं विलमाभिः, पुष्पोच्चयकुतूहलात् । रेजिरे शाखिनः स्त्रीभिः, सातस्त्रीफला इव ।। १००८ ।। मल्लिकाकोरकैः कोऽपि, कामिन्याः स्वयमुच्चितैः । सर्वाङ्गाभरणं चक्रे, मुक्तादामविडम्बकम् ।। १००९ ।। प्रियायाः कोऽपि धम्मिलं, विकचैर्निजपाणिना । कुसुमैः पूरयामास, कुसुमेषोरिवेषुधिम् ॥ १०१० ।। पञ्चवणः स्रजं कश्चिद्, ग्रथित्वा कुसुमैः स्वयम् । विडम्बितेन्द्रधनुष, दत्त्वा कान्तामतोषयत् ।। १०११ ।। सलीलं प्रियया कोऽपि, प्रक्षिप्तं पुष्पकन्दुकम् । प्रतीच्छति स्म पाणिभ्यां, प्रसादमिव किङ्करः ।। १०१२ ॥ दोलान्दोलनसातयातायाता मृगीदृशः । जघ्नुः पादैः पादपाग्रान्, सापराधान् पतीनिव ।। १०१३ ॥ दोलारूढा नवोदूढा, पृच्छन्तीनां धवाभिधाम् । काऽप्यालीनां लताघातान्, सेहे हीमुद्रितानना ।। १०१४ ॥ कातराक्ष्या समं कश्चिदारूढः सम्मुखीनया । गाढमन्दोलयद् दोला, तद्गाढालिङ्गनेच्छया ।। १०१५ ॥ प्रतिशाखं लम्बमानदोलान्दोलनलीलया । रेजुरुद्यानवृक्षेषु, युवानः प्लवगा इव ।। १०१६ ।। एवं खेलायमानेषु, तत्र पौरजनेष्वथ । दध्यौ स्वामी किमीदृक्षा, क्रीडाऽन्यत्राऽपि कुत्रचित् ? ॥ १०१७॥ जज्ञेऽथाऽवधिना स्वामी, स्वःसुखं चोत्तरोत्तरम् । अनुत्तरस्वर्गसुखं, भक्तपूर्वं स्वयं च यत् ।। १०१८ ॥
ऋषभप्रभणा वसन्तोत्सव निरीक्षणम् ।
॥१३२ ॥