________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १३० ।।
ऋषभ
तदाम्नायात् कलादीदमद्याऽपि भुवि वर्त्तते । अर्वाचीनैर्बुद्धिमद्भिर्निबद्धं शास्त्ररूपतः ।। ९७२ ।। स्वामिनः शिक्षया दक्षो, लोकोऽभूदखिलोऽपि सः । अन्तरेणोपदेष्टार, पशवन्ति नरा अपि ।। ९७३ ।। तदोन-भोग-राजन्य-क्षत्रभेदैश्चतुर्विधान् । जनानासूत्रयद् विश्वस्थितिनाटकसूत्रभृत् ।। ९७४ ।। आरक्षपुरुषा उग्रा, उग्रदण्डाधिकारिणः । भोगा मन्त्र्यादयो भर्तुस्त्रायस्त्रिंशा हरेरिव ।। ९७५ ।। राजन्या जज्ञिरे ते ये, समानवयसः प्रभोः । अवशेषास्तु पुरुषा, बभूवुः क्षत्रिया इति ।। ९७६ ।। विरचय्य नवामेवं, व्यवहारव्यवस्थितिम् । नवोढामिव बुभुजे, नवां राज्यश्रियं विभुः ।। ९७७ ।। यथाऽपराधं दण्ड्येषु, दण्डं प्रायुक्त नाभिभूः । व्याधितेषु यथा व्याधिचिकित्सक इवाऽगदम् ।। ९७८ ।। दण्डभीतस्तदा लोकश्चक्रे चौर्यादिकं न हि । एकैव दण्डनीतिर्हि, सर्वान्यायाहिजाङ्कली ।। ९७९ ।। क्षेत्रोद्यानगृहादीनां, मर्यादां कोऽपि कस्यचित् । नाऽत्यक्रामत् प्रभोराज्ञामिव लोकः सुशिक्षितः ।।९८० ॥ कालेऽवर्षअलधरः, सस्यनिष्पत्तिहेतवे ।न्यायधर्म जगद्भर्तुर्गर्जाव्याजात् स्तुवन्निव ।। ९८१ ॥ सस्यक्षेत्ररिक्षुवाटैर्गोकुलैश्चाऽऽकुलास्तदा । रेजुर्जनपदाः स्वा , स्वाम्यगर्धाभिधायिनः ।। ९८२।। हेयादेयविवेकज्ञीकृतैर्लोकैर्व्यधाद् विभुः । प्रायेण भरतक्षेत्रं, विदेहक्षेत्रसन्निभम् ।। ९८३ ।। राज्याभिषेकात् प्रभृति, पृथिवीं परिपालयन् । त्रिषष्टिं पूर्वलक्षाणि, नाभिभूरत्यवाहयत् ।। ९८४।। प्रभुः स्मरकृतावासे, मधुमासे समेयुषि । अगादन्येधुरुधाने, परिवारानुरोधतः ।। ९८५।। पुष्पवासगृहे तत्र, पुष्पाभरणभूषितः । आसाञ्चक्रे जगत्स्वामी, पुष्पमास इवाऽङ्गवान् ।। ९८६।। १ पशुवदाचरन्ति । २ सर्पोच्चाटनी मन्त्रविद्या ।
राज्य
व्यवर
||१३०॥