________________
त्रिषष्टिशलाकापुरुषचरिते
।। १२९ ।।
तानि पञ्चाऽपि शिल्पानि, प्रत्येकं विशिभेदतः । शतधा प्रासरल्लोके, स्रोतांसि सरितामिव ।। ९५७ ।। तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविकाकृते ।। ९५८ ॥ स्वामी सामदानभेददण्डोपायचतुष्टयम् । जगद्व्यवस्थानगरीचतुष्पथमकल्पयत् ।। ९५९ ।। द्वासप्ततिकलाकाण्ड, भरतं सोऽध्यजीगपत् । ब्रह्म ज्येष्ठाय पुत्राय, ब्रूयादिति नयादिव ॥ ९६० ॥ भरतोऽपि स्वसोदर्यांस्तनयानितरानपि । सम्यगध्यापयत् पात्रे, विद्या हि शतशाखिका ।। १६१ ।। भरतोऽपि बाहुबलिनं, भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ ९६२ ।। अष्टादश लिपीब्रह्म्या, अपसंव्येन पाणिना । दर्शयामास सव्येन, सुन्दर्या गणितं पुनः ।। ९६३ ॥ मानोन्मानाऽवमानानि, प्रतिमानानि वस्तुषु । पोतान् प्रोतांश्च मण्यादीन् प्रभुः प्रावर्तयत् तदा ।। ९६४ ।। राजाध्यक्षकुलगृहसाक्षिभिः समजायत । व्यवहारस्तदादिष्टो, विवादिप्रतिवादिनाम् ।। ९६५ ।। नागाद्यर्चा धनुर्वेदश्चिकित्सोपासने रणः । अर्थशास्त्रं बन्धघातवधगोष्ठ्यस्ततोऽभवन् ।। ९६६ ॥ असौ माता पिता भ्राता भार्या पुत्रो गृहं धनम् । ममेत्यादि च ममताऽभूज्जनानां तदादिका ॥ ९६७ ॥ दृष्ट्वा स्वामिनमुद्वाहे, प्रसाधितमलङ्कृत्तम् । प्रासाधयदलञ्चक्रे, लोकोऽपि स्वं ततः परम् ।। ९६८ ।। तदा दृष्ट्वा प्रभुकृतं, पाणिग्रहणमादिमम् । लोकोऽपि कुरुतेऽद्याऽपि, ध्रुवो ह्यध्वा महत्कृतः ।। ९६९ ।। दत्तकन्योपयमनं, प्रभूद्वाहात् प्रभृत्यभूत् । चूडोपनयनक्ष्वेडापृच्छा अपि ततोऽभवन् ।। ९७० ।। एतच्च सर्व सावद्यमपि लोकानुकम्पया । स्वामी प्रवर्त्तयामास, जानन् कर्त्तव्यमात्मनः ।। ९७१ ।। ★ विंशभे 19 परमतत्त्वम् । २ दक्षिणेन + न्मानप्रमाणानि । ३ गजादिपूजा । ४ स्थिरः ।
प्रथमं पर्व द्वितीयः
सर्गः श्रीऋषभ
स्वामिचरितम् ।
ऋषभप्रभुप्रदर्शितानि ।
।। १२९ ।।