________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पई द्वितीय सर्ग. श्रीऋषस्वामि चरितम् ।
||१२८ ॥
तृणकाष्ठादि स प्रोषन्, दीप्ररत्नभ्रमेण तु । धावित्वाऽऽदातुमारेभे, प्रसारितकरैर्जनैः ।। ९४२ ।। तेनाऽग्निना दह्यमाना, भीताः प्रभुमुपेत्य ते । नूतनं भूतमुद्भूतं, किञ्चिदप्येवमूचिरे ।। ९४३ ।। स्वाम्यप्यूचे स्निग्धरूक्षकालादेषोऽग्निरुत्थितः । नैकान्तरूक्षे नैकान्तस्निग्धे काले भवत्यसौ ।। ९४४ ।। स्थित्वाऽस्य पार्श्वतो वह्नेः, पर्यन्तस्थं तृणादिकम् । अपसारयताऽशेष, पश्चाद् गृह्णीत तं ननु ।। ९४५ ।। ततः पूर्वोक्त विधिना, साधयित्वौषधीरिमाः । ज्वलनेऽस्मिन् परिक्षिप्य, परिपच्य च खादत ।। ९४६ ।। ते तथा चक्रिरे मुग्धा, दग्धाश्चौषधयोऽग्निना । आगत्य कथयामासुरिति च स्वामिने पुनः ॥९४७ ।। स्वामिन् ! न किञ्चिदस्मभ्यं, ददात्येष बुभुक्षितः । कुक्षिम्भरिरिवैकोऽत्ति, क्षिप्ताः सर्वत ओषधी ॥ ९४८ ।। तदानीं सिन्धुरस्कन्धाधिरूढः प्रभुरप्यभूत् । तैः समानाययामास, मृत्तिकापिण्डमाकम् ।। ९४९ ।। कुम्भिकुम्भे मृदं न्यस्य, प्रवितन्य च पाणिना । पात्रं चक्रे तदाकारं, शिल्पानां प्रथमं प्रभुः ।। ९५० ।। स्वामीत्यूचे कुरुतैवं, भाजनान्यपराण्यपि । तान्यग्नौ न्यस्य पचतौषधीस्तदनु खादत ।।९५१ ।' ततश्च चक्रिरे ते तु, तथैव स्वामिशासनम् । तदादि जज्ञिरे कुम्भकाराः प्रथमकारवः ।। ९५२ ।। चक्रे वर्द्धक्ययस्कार, गृहाद्यर्थ जगत्पतिः । विश्वस्य सुखसृष्ट्यै हि, महापुरुषसृष्टयः ।। ९५३ ।। गृहादिचित्रकृतये, कृती चित्रकृतोऽपि सः । सूत्रयामास लोकानां, क्रीडावैचित्र्यहतुना ।।९५४ ।। कुविन्दान् कल्पयामास, लोकसंव्यानहेतवे । सर्वकल्पद्रुमस्थाने, ह्येकः कल्पद्रुमः प्रभुः ।। ९५५ ।। रोम्णां नखानां वृद्ध्या च, बाध्यमाने भृशं जने । जगदेकपिता स्वामी, नापितानप्यसूत्रयत् ॥ ९५६ ॥ * प्लोषन् । + लोकानां गृहहेतोश्च, प्रभुळधित वर्द्धकीन् । १ तन्तुवायकान् ।
ऋषभप्रभु प्रदर्शितानि
।। १२८ ।।