________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्ग:
श्रीऋषभस्वामिचरितम् ।
॥१२७॥
असाधुशासने साधुपालने कृतकर्मणः । प्रत्यङ्गानि स्वकानीव, मन्त्रिणो विदधे विभुः ।। ९२६ ।। चौर्यादिरक्षणे दक्षानारक्षानप्यसूत्रयत् । सुत्रामेव लोकपालान्, राजा वृषभलाञ्छनः ।। ९२७ ।। अनीकस्याङ्गमुत्कृष्टमुत्तमाङ्गं तनोरिव । राज्यस्थित्यै राजहस्ती, हस्तिनः स समग्रहीत् ।। ९२८ ।। आदित्यतुरगस्पर्द्धयेवात्युद्धरकन्धरान् । बन्धुरान् धारयामास, तुरगान् वृषभध्वजः ।। ९२९ ।। सुश्लिष्टकाष्ठघटितान्, स्यन्दनान् नाभिनन्दनः । विमानानीव भूस्थानि, सूत्रयामास च स्वयम् ।। ९३० ॥ सुपरीक्षितसत्त्वानां, पत्तीनां च परिग्रहम् । नाभिसूनुस्तदा चक्रे, चक्रवर्तिभवे यथा ।। ९३१ ।। नव्यसाम्राज्यसौधस्य, स्तम्भानिव बलीयसः । अनीकाधिपतींस्तत्र, स्थापयामास नाभिभूः ।। ९३२ ।। गो-बलीवर्द-करभ-सैरिभा-ऽश्वतरादिकम् । आददे तदुपयोगविदुरो हि जगत्पतिः ।। ९३३ ।। कल्पद्रुषु समुच्छन्नेष्वनपत्यान्वयेष्विव । कन्दमूलफलादीनि, तदा बुभुजिरे जनाः ।। ९३४ ।। शालि-गोधूम-चणक-मुद्गाद्या ओषधीरपि । तृणवत् स्वयमुत्पन्नास्ते चखादुरपाकिमाः ।। ९३५ ।। तस्मिन्नजीर्यत्याहारे, तैर्विज्ञप्तोऽवदद् विभुः । मृदित्वा त्वचयित्वा च, हस्तैस्ताः खादताऽधुना ।। ९३६ ।। उपदेशं जगद्भस्तेिषां पालयतामपि । काठिन्यादोषधीनां तु, नाऽऽहारो जीर्यति स्म सः ।। ९३७ ।। तैर्विज्ञप्तः पुनः स्वामीत्यूचे सङ्घष्य पाणिभिः । तास्तिमित्वा जलैः पत्रपुटे धृत्वा च खादत ।। ९३८ ॥ ते तथा चक्रिरे तत्राऽप्यजीर्णाहारवेदनाम् । तैर्विज्ञप्तो जगन्नाथः, पुनरप्येवमादिशत् ।। ९३९ ।। पूर्वोक्तविधिमाधायौषधीमुष्टौ निधाय च । आतपे कक्षयोः क्षिप्त्वा, भक्षयन्तु ततः सुखम् ।। ९४० ।। तत्राऽप्यजीर्णाहारेण, विधुरेषु जनेष्वथ । तरुखण्डे मिथः शाखाघर्षणादग्निरुत्थितः ।। ९४१ ॥
ऋषभप्रभुप्रदर्शितानि ।
|| १२७॥