________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १२६ ॥
विनीताः साध्वमी तेन, विनीताख्यां प्रभोः पुरीम् । निर्मातुं श्रीदमादिश्य, मघवा त्रिदिवं ययौ ।। ९११ ॥ द्वादशयोजनायामां, नवयोजनविस्तृताम् । अयोध्येत्यपराभिख्या, विनीता सोऽकरोत् पुरीम् ।। ९२१ ॥ तां च निर्माय निर्मायः, पूरयामास यक्षराट् । अक्षय्यवस्त्रनेपथ्यधनधान्यैर्निरन्तरम् ॥ ९१३ ॥ वजेन्द्रनीलवैडूर्यह→किर्मीररश्मिभिः । भित्ति विनाऽपि खे तत्र, चित्रकर्म विरच्यते ।। ९१४ ।। तत्रोच्चैः काञ्चनैर्हयैर्मेरुशैलशिरांस्यभि । पत्रालम्बनलीलेव, ध्वजव्याजाद् वितन्यते ॥९१५ ॥ तद्वप्रे दीप्तमाणिक्यकपिशीर्षपरम्पराः । अयत्नादर्शतां यान्ति, चिरं खेचरयोषिताम् ।। ९१६ ॥ तस्यां गृहाङ्गणभुवि, स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं कर्करकक्रीडा, कुरुते बालिकाजनः ।।९१७ ।। तत्रोद्यानोच्चवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि, क्षणं यान्ति कुलायताम् ।। ९१८ ॥ तत्र दृष्ट्वाऽट्टहर्येषु, रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं, तय॑ते रोहणाचलः ।। ९१९ ।। जलकेलिरतस्त्रीणां, त्रुटितैरिमौक्तिकैः । ताम्रपर्णीश्रियं तत्र, दधते गृहदीर्घिकाः ॥ ९२० ॥ तत्रेभ्याः सन्ति ते येषां, कस्याऽप्येकतमस्य सः । व्यवहर्तुं गतो मन्ये, वणिक्पुत्रो धनाधिपः ।। ९२१ ।। नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांसवो रथ्याः, क्रियन्ते तत्र सर्वतः ।। ९२२ ।। वापीकूपसरोलक्षैः, सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा ।। ९२३ ॥ गतायां जन्मतः पूर्वलक्षाणां विंशतौ तदा । तस्यां नगर्यां राजाऽभूत्, प्रभुः पालयितुं प्रजाः ।। ९२४ ।। ॐकार इव मन्त्राणां, नृपाणां प्रथमो नृपः । अपत्यानि निजानीव, पालयामास स प्रजाः ।। ९२५ ॥ १ निष्कपटः । २ भाषायाम् 'काबरचितरो रंग' ।
विनीता नगरीनिर्माणम् ।
।। १२६॥