________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १२५ ॥
सम्भूय ऋषभनाथं, मिथुनान्युपतस्थिरे । तच्चाऽसमञ्जसं सर्व, जायमानं व्यजिज्ञपन् ।। ८९६ ॥ ज्ञानत्रयोधरो जातिस्मरः स्वामीत्यवोचत । मर्यादोल्लकिनां लोके, राजा भवति शासिता ।। ८९७ ।। आसयित्वाऽऽसनेऽत्युच्चेऽभिषिक्तः प्रथमं हि सः । चतुरङ्गबलोपेतः, स्यादखण्डितशासनः ।। ८९८ ।। तेऽप्यूचुर्भव राजा नस्त्वमेव किमुपेक्षसे ? । ईक्ष्यते नाऽपरः कोऽपि, मध्येऽस्माकं य ईदृशः ।। ८९९ ।। अभ्यर्थयध्वमभ्येत्य, नाभि कुलकरोत्तमम् । स वो दास्यति राजानमित्यभाषत नाभिभूः ।। ९०० ।। राजानं याचितस्तैस्तु, नाभिः कुलकराग्रणीः । भवतामृषभो राजा, भवत्विति जगाद तान् ।। ९०१ ।। अथो मिथुनधर्माणो, मुदिताः समुपेत्य ते । अस्माकं नाभिना राजाऽर्पितोऽसीत्यूचिरे प्रभुम् ।। ९०२ ।। ततः स्वाम्यभिषेकार्थ, तेऽयुर्नीराय युग्मिनः । सिंहासनं चाऽकम्पिष्ट, त्रिविष्टपपतेस्तदा ।।९०३ ।। विज्ञायाऽवधिना राज्याभिषेकसमयं प्रभोः । तत्राऽऽजगाम सुत्रामा, गेहाद् गेहमिव क्षणात् ।। ९०४ ॥ सौधर्मकल्पाऽधिपतिः, क्लृप्त्वा काञ्चनवेदिकाम् । अतिपाण्डुकम्बलावत्, तत्र सिंहासनं न्यधात् ।। ९०५ ।।। राज्याभिषेकमृषभस्वामिनः पूर्वदिक्पतिः । देवानीतैस्तीर्थतोयैः, सौर्वस्तिक इव व्यधात् ॥९०६ ॥ स्वामिना वासयाञ्चक्रे, दिव्यवासांसि वासवः । चारुचन्द्रातपमयानीव नैर्मल्यसम्पदा ॥९०७ ।। प्रभोर्जगत्किरीटस्य, किरीटादीनि वृत्रहा । रत्नालङ्करणान्यङ्गे, यथास्थानं न्यवेशयत् ।। ९०८ ।। आजग्मुर्युग्मिनोऽप्यम्भो, गृहीत्वाऽम्भोजिनीदलैः । उदर्घा इव तस्थुस्ते, पश्यन्तो भूषितं प्रभुम् ।।९०९ ।। दिव्यनेपथ्यवस्त्रालङ्कृतस्य शिरसि प्रभोः । न युज्यते क्षेप्तुमिति, तेऽक्षिपन् पादयोः पयः ।। ९१० ।।
ऋषभप्रभो राज्याभिषेकः ।
॥१२५॥
१ इन्द्रस्य ।२ पुरोहितः ।