________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १२४ ।।
एवं निवर्त्तितोद्वाहः, प्रभुं नत्वा स्वमाश्रयम् । ययौ समाप्तसङ्गीतो, रङ्गाचार्य इवाऽद्रिभित् ।। ८८० ॥ ततः प्रभृति सोद्वाहस्थितिः स्वामिप्रदर्शिता । प्रावर्त्तत परार्थाय महतां हि प्रवृत्तयः ।। ८८१ ।। भोगान् स्वाम्यप्यनासक्तः, पत्नीभ्यां बुभुजे चिरम् । सद्वेदनीयमपि हि न कर्म क्षीयतेऽन्यथा ।। ८८२ ॥ विवाहाऽनन्तरं ताभ्यां समं विलसतः प्रभोः । गतेषु किञ्चिदूनेषु, पूर्वलक्षेषु षट्स्वथ ।। ८८३ ॥ बाहुजीवपीठजीवौ, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ सुमङ्गलादेव्या, युग्मत्वेनाऽवतेरतुः ।। ८८४ ॥ तौ सुबाहुमहापीठजीवौ सर्वार्थसिद्धतः । च्युत्वा कुक्षौ सुनन्दायास्तद्वदेवाऽवतेरतुः ।। ८८५ ।। चतुर्दश महास्वप्नान्, गर्भमाहात्म्यशंसिनः । तदैव मरुदेवीव, देव्यपश्यत् सुमङ्गला ।। ८८६ ।। स्वामिनी स्वामिने स्वप्नान् कथयामास तानथ । चक्रभृत् ते सुतो भावीत्याख्यत् प्रभुरपि स्फुटम् ॥ ८८७ ॥ सूर्यसन्ध्ये इव प्राची, घुतिद्योतितदिङ्मुखे । अपत्ये भरतब्राह्म्यौ सुषुवेऽथ सुमङ्गला ।। ८८८ ।। अजीजनद् बाहुबलि-सुन्दर्यौ सुन्दराकृती । सुनन्दा स्वामिनी प्रावृडिव वारिदविद्युतौ ।। ८८९ ॥ देवी सुमङ्गलैकोनपञ्चाशतमथ क्रमात् । असूत सुतयुग्मानि रत्नानीव विदूरभूः ।। ८९० ।। अवर्धन्त क्रमेणाऽमी, रममाणा इतस्ततः । महौजसो महोत्साहा, विन्ध्याद्रौ कलभा इव ॥ ८९१ ।। शुशुभे वृषभस्वामी, समन्तात् परिवारितः । तैरपत्यैर्महाशाखी, शाखाभिरिव भूरिभिः ।। ८९२ ॥ तदा च कालदोषेण, प्रभावः कल्पभूरुहाम् । अहीयत प्रदीपानामिव तेजो दिवामुखे ।। ८९३ ।। प्रादुरासन् कषायाश्च, मिथुनानां क्रुदादयः । लाक्षाकणा इवाऽश्वत्थपादपानां शनैः शनैः ।। ८९४ ।। अथ हाकारमाकारधिक्काराख्यं नयत्रयम् । यतत्रयमिव व्याला, मिथुनान्यत्यलङ्घयन् ।। ८९५ ।।
प्रथमं पर्व द्वितीयः
सर्ग:
श्रीऋषभस्वामि
चरितम् ।
भरतादि
पुत्राणा
मुत्पत्तिः ।
।। १२४ ।।