________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १२३ ।।
कट्यां स्वामिनमारोह्याऽऽभियोगिक इवाऽमरः । अमराधिपतिर्भक्त्याऽचलद् वेदिगृहं प्रति ॥ ८६६ ।। इन्द्राणीभ्यां द्रुतं देव्यावप्यारोह्य कटीतटे । अवियोजितहस्ताग्रं, चालिते स्वामिना समम् ॥ ८६७ ॥ शिरोरत्नैस्त्रिजगतस्ते तैः सह वधूवरैः । पूर्वद्वारेण विविशुर्मध्येवेदिनिकेतनम् ॥ ८६८ ॥ त्रायस्त्रिंशसुरस्तत्र, वह्निमह्नाय कोऽप्यथ । आविश्चक्रे वेदिकुण्डे, पृथ्वीमध्यादिवोत्थितम् ॥। ८६९ ।। समिदाधानतो धूमलेखा व्यानशिरे दिवम् । कर्णावतंसतां यान्त्यश्चिरं खेचरयोषिताम् ॥ ८७० ॥ तमग्नि परितोऽभ्राम्यत्, स्वामी स्त्रीगीतमङ्गलः । सुमङ्गलासुनन्दाभ्यां यावत् पूर्णाष्टमङ्गली ।। ८७१ ।। सहैव पाणिमोक्षेण, तेषामञ्चलमोक्षणम् । गीयमानाभिराशीर्भिः कारयामास वासवः ।। ८७२ ॥ सकलत्रोऽथ मघवा, हस्ताभिनयलीलया । ननर्त रङ्गाचार्यन्ति, स्वाम्युत्सवभवा मुदः ।। ८७३ ।। तमन्वनृत्यन् मुदिता, अपरेऽपि दिवौकसः । मरुता नर्त्तितं वृक्षमन्वाश्रितलता इव ।। ८७४ ॥ कैश्चिज्जयजयारावकारिभिश्चारणैरिव । कैश्चिद् विचित्रचारीकं, नृत्यद्भिर्भरतैरिव ।। ८७५ ।। गन्धर्वैरिव गायद्भिरपरैर्जातिबन्धुरम् । वादयद्भिर्मुखान्यन्यैरातोद्यानीव सुस्फुटम् ॥। ८७६ ॥ सम्भ्रमेण प्लवमानैः, प्लवगैरिव कैश्चन । हासयद्भिर्जनं सर्वमन्यैर्वैहासिकैरिव ।। ८७७ ॥ अपसारयद्भिर्लोकं, प्रतीहारैरिवाऽपरैः । हर्षोन्मत्तैः सुरैरेवं दर्श्यमानस्वभक्तिकः ।। ८७८ ॥ सुमङ्गलासुनन्दाभ्यां, भूषितोभयपार्श्वकः । दिव्ययानाधिरूढोऽथ, स्वस्थानमगमद् विभुः ।। ८७९ ।। ॥ पञ्चभिः कुलकम् ॥
१ रहाचार्यवदाचरन्ति ।
प्रथमं पर्व
द्वितीयः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
ऋषभप्रभोः
विवा
होत्सवः ।
।। १२३ ।।