________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १२२ ॥
ऋषभप्रभोः
दृष्टिदृष्ट्या तदानीं च, निर्वातजलनिश्चला । मनसेव मनस्तेषां, परस्परमयुज्यत ।। ८५१ ॥ कनीनिकासु तेऽन्योऽन्यं, रेजिरे प्रतिबिम्बिताः । प्रविशन्त इवाऽन्योऽन्यं, हृदयेष्वनुरागतः ।। ८५२ ॥ इतश्चाऽनुचरीभूय, सुराः सामानिकादयः । पार्थेष्वस्थुः प्रभोर्मेरोरिव विद्युत्प्रभादयः ।। ८५३ ॥ वधूट्योः पारिपार्श्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान्, गातुमारेभिरे स्त्रियः ।। ८५४ ।। ज्वरीवाऽब्धि शोषयितुं, मोदकान् परिखादितुम् । श्रद्धालुरनुवरको, मनसा केन नन्वसौ ? ॥ ८५५ ॥ मण्डकेभ्योऽखण्डदृष्टिः, कान्दुकस्येव कुक्कुरः । स्पृहयालुरनुवरो, मनसा केन नन्वसौ ? ॥८५६ ।। आजन्मादृष्टपर्वी किं, वटकान् रोरंबालवत् ? । श्रद्धत्तेऽत्तुमनुवरो, मनसा केन नन्वसौ ? ।। ८५७ ।। तोयानां चातक इव, धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो, मनसा केन नन्वसौ ? ।। ८५८ ।। ताम्बूलवल्लीपत्राणां, तृणानामिव तर्णकः । श्रद्धाभूरद्याऽनुवरो, मनसा केन नन्वसौ ? ।। ८५९ ॥ हैयङ्गवीनपिण्डस्य, बिडाल इव लम्पटः । श्राद्धश्चूर्णस्याऽनुवरो, मनसा केन नन्वसौ ? ।। ८६० ॥ विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो, मनसा केन नन्वसौ ? ।। ८६१ ॥ निर्माल्यानामिवोन्मत्तो, माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो, मनसा केन नन्वसौ ? ! ८६२ ।। एवं कौतुकधवलान्, कौतुकोत्कर्णिताननाः । आकर्णयन्तोऽस्थुर्लेखा, आलेख्यलिखिता इव ।। ८६३ ।। लोकेषु व्यवहारोऽयं, दर्शनीय इति प्रभुः । विवाद इव मध्यस्थस्तदुपेक्षितवांस्तदा ।। ८६४ ।। नावोरिवाञ्चलौ देव्योरञ्चलाभ्यां जगत्पतेः । महाप्रवहणस्येव, बबन्ध बलेसूदनः ।। ८६५ ।। १ हास्यकर्मणि । २ अनुवरको लोके अणवर' इति प्रसिद्धः । ३ बालकवत् । ४ देवाः । ५ इन्द्रः ।
विवा
होत्सवः ।
॥१२२॥