________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११९ ॥
पद्मखण्डपतद्बालारुणरोचिर्विडम्बना । अमण्डयंस्तयोः पादानलक्तकरसेन ताः ।। ८०७ ।। अङ्गनारत्नयोरङ्गमङ्गरागेण चारुणा । काञ्चनं गैरिकेणेव, विलिम्पन्ति स्म तास्तयोः ।। ८०८ ।। ग्रीवाभुजाग्रवक्षोजगण्डदेशेषु तास्तयोः । प्रशस्तीरिव कामस्य, लिलिखुः पत्रवल्लरीः ।। ८०९ ।। अलिके तिलकं चारु, चक्रुस्ताश्चान्दनं तयोः । रतिदेव्यवताराय, प्रत्यंग्रमिव मण्डलम् ।। ८१० ।। तयोः प्रसाधयामासुर्नयनान्यञ्जनेन ताः । नीलोत्पलवनापातिभृङ्गसब्रह्मचारिणा ।। ८११ ॥ तयोर्बबन्धुर्धम्मिल्लमुन्मीलन्माल्यदाम ताः । पुष्पायुधेनेव कृतमायुधागारमात्मनः ।। ८१२ ।। पारिणेत्राणि वस्त्राणि, ताभ्यां ताः पर्यधापयन् । लम्बमानदशाश्रेणिन्यक्कृतेन्दुकराण्यथ ।। ८१३ ।। तयोरधिशिरे न्यासन, विचित्रमणिभासुरौ । ताः किरीटौ पुष्पदन्तौ, पूर्वापरदिशोरिव ।। ८१४ ।। तत्कर्णयोर्मणिमयावतंसौ ता न्यवीविशन् । रत्नाकरितमेरूर्वीगर्वसर्वस्वतस्करौ ।। ८१५ ।। ताः समारोपयामासुर्दिव्ये मौक्तिककुण्डले । तत्कर्णलतयोर्नव्यपुष्पगुच्छविडम्बिनी ।। ८१६ ।। निष्कं ताश्चित्रमाणिक्यदीप्तिदन्तुरिताम्बरम् । सङ्क्षिप्तेन्द्रधनुर्लक्ष्मीहरं कण्ठे न्यधुस्तयोः ।। ८१७ ॥ हारमारोपयामासुरधिस्तनतटं तयोः । आतन्वानं स्थलारोहदवरोहन्नदीभ्रमम् ।। ८१८ ।। भुजयोर्योजयामासुः, केयूरे रत्नमण्डिते । पुष्पबाणधनुर्बद्धवीरपट्टोपमे तयोः ।। ८१९ ।। आमुक्तौ च तयोर्मुक्ताकङ्कणौ पाणिमूलयोः । आवालाविव पानीयशालिनौ लतयोस्तले ।। ८२० ।। प्रक्वणत्किङ्किणीश्रेणिं, श्रोणौ व्यश्राणयंस्तयोः । मणिकाञ्ची रतेर्देव्या, इव मङ्गलपाठिकाम् ।। ८२१ ।। १ ललाटे । २ नवीनम् । ३ चन्द्रसूर्यो । ४ कण्ठाभरणम् ।
ऋषभप्रभोः पाणि ग्रहणम् ।
।। ११९॥