________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ११८ ॥
किं चिन्तयसि मारीचि ! ?, सुमुख्यसि किमुन्मुखी ? । किमर्वाग् नाऽसि गान्धर्वि! ?, दिव्ये ! दीव्यसि किं मुधा ? आसन्नं वर्त्तते लग्नं, ननु सर्वात्मना ततः । स्वे स्वे त्वरध्वं कर्त्तव्ये, विवाहोचितकर्मणि ।। ७९४ ।। मिथ इत्यादिशन्तीनां, नामग्राहं मुहुर्मुहुः । सरसोऽप्सरसां जज्ञे, तुमुलस्तत्र सम्भ्रमात् ।। ७९५ ॥
॥ एकादशभिः कुलकम् ।। सुमङ्गलां सुनन्दां च, मङ्गलस्नानहेतवे । ततश्चाऽप्सरसः काश्चिदासयामासुरासने ।। ७९६ ।। तयोरुद्गीयमाने च, धवले मङ्गले कले । व्यधुः सर्वाङ्गमभ्यङ्ग, तैलेनाऽथ सुगन्धिना ।। ७९७ ।। पतदुद्वर्तनीपुञ्जपवित्रितमहीतलम् । पिष्टातकैः सूक्ष्मपिष्टैश्चक्रुश्चोद्वर्त्तनं तयोः ।। ७९८ ।। पादयोर्जानुनोः पाण्योरंसयोरलिके तयोः । सुधाकुण्डान्नवेवाऽगलीनास्तास्तिलकान् व्यधुः ।। ७९९ ।। कौसुम्भसूत्रैस्तर्कुस्थैरङ्गं सव्यापसव्ययोः । ताः पस्पृशुः समचतुरस्रतामिव वीक्षितुम् ।। ८०० ।। एवं ते वरवर्णिन्यौ, वर्णक ताभिराहिते । प्रयत्नाद् वारयन्तीभिर्धात्रीभिरिव चापलात् ।। ८०१ ।। तदैवोद्वर्णकमपि, वर्णकस्येव सोदरम् । व्यधुस्तेनैव विधिना, तयोस्ताः प्रमदोन्मदाः ।। ८०२ ॥ निवेश्य चाऽऽसनेऽन्यस्मिन्, स्वर्णकुम्भोदकैरथ । स्नपयन्ति स्म तास्ते स्वकुलयोरिव देवते ।। ८०३ ।। विदधुर्गन्धकाषाय्या, तयोरङ्गप्रमार्जनम् । केशांश्च वेष्टयामासुर्वाससा मसृणेन ताः ।। ८०४ ।। तास्ते क्षौमाणि संव्याय्याऽऽसयित्वा चाऽऽसनान्तरे । केशेभ्योऽश्चोतयन् वारि, मुक्तावृष्टिभ्रमं दिशत् ।। ८०५ ।। ईषदाानधूपायन, दिव्यधूपेन कुन्तलान् । स्निग्धधूमलतापुष्टश्रीविशेषांस्तयोश्च ताः ।। ८०६ ॥
ऋषभप्रभोः पाणि ग्रहणम् ।
|| ११८॥
१ स्थापिते । २ परिधाप्य ।