________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामि
।। ११७ ॥
चरितम् ।
क्वचित् स्फटिकबद्धोऽनिरन्तरमरीचिभिः । सोऽतनोन्मण्डपः क्रीडापीयूषसरसीभ्रमम् ।। ७७७ ।। पद्मरागशिलाशोचिर्निचयैः प्रसृतैः क्वचित् । सोऽदिशद् दिव्यविस्तारिकौसुम्भांशुकसंशयम् ।। ७७८ ।। क्वचिन्नीलशिलारश्मिप्ररोहैः सोऽतिहारिभिः । पुनरुक्तोप्तमङ्गल्ययवाङ्कुर इवाऽऽबभौ ।। ७७९ ।। क्वचिन्मरकतक्षोणिरश्मिदण्डैरखण्डितैः । आज़ेपनीतमङ्गल्यवंशशङ्का दिदेश सः ॥७८० ।। श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाऽऽश्रितः सोऽभूत्, तत्कौतुकदिदृक्षया ।। ७८१ ॥ उल्लोचं परितस्तं च, लम्बिता मौक्तिकस्रजः । अष्टानां ककुभां हर्षहसितानीव रेजिरे ।। ७८२ ॥ चतस्रो रत्नकलसश्रेणयोऽभ्रंलिहानकाः । पर्यष्ठाप्यन्त देवीभिर्निधानानि रतेरिव ।। ७८३ ।। आर्द्राः शुशुभिरे वंशाः, कुम्भावष्टम्भदायिनः । विश्वावष्टम्भदस्वामिवंशवृद्धेर्नु सूचकाः ।। ७८४ ।। आरभस्व स्रजो रम्भे !, दूर्वामुर्वशि! सज्जय । घृताचि ! घृतदध्यादि, वरार्घाय समाहर ॥ ७८५ ।। मञ्जुघोषे ! मञ्जुघोषयाऽऽलीर्धवलमगलान् । त्वं सुगन्धे ! सुगन्धीनि, वस्तूनि प्रगुणीकुरु ।। ७८६ ।। स्वस्तिकानुत्तमान् द्वारदेशे देहि तिलोत्तमे ! । मेने ! सम्मानयाऽऽयातानुचितालापभङ्गिभिः ।। ७८७ ।। सुकेशि ! केशाभरणं, वधूवरकृते धर । सहजन्ये ! जन्ययात्रानृणां स्थानं प्रदर्शय ।। ७८८ ॥ चित्रलेखे ! लिखाऽऽलेख्यं, विचित्रं मातृवेश्मनि । प्रगुणीकुरु तूर्णं त्वं, पूर्णपात्राणि पूर्णिनि ! ।।७८९ ॥ पुण्डरीके ! पुण्डरीकैः, पूर्णकुम्भान् विभूषय । त्वं स्थापय यथास्थानमम्लोचे ! वरमञ्चिकाम् ।। ७९० ।। आपादय हंसपादि !, त्वं वधूवरपादुकाः । त्वं पुञ्जिकास्थले ! वेदिस्थली लिम्पाऽऽशु गोमयैः ।।७९१ ।। रामे ! किं रमसेऽन्यत्र!, हेमे ! किं हेम वीक्षसे ? । क्रतुस्थले ! प्रमत्तेव, किमसि त्वं विसंस्थुला ? ||७९२ ।।
ऋषभप्रभोः पाणिग्रहणम् ।
।।११७॥