________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११६ ॥
मन्ये स्वामी वीतराग, गर्भवासात् प्रभृत्यपि । चतुर्थपुरुषार्थाय, सज्जोऽन्यार्थानपेक्षया ।। ७६२ ।। तथाऽपि नाथ ! लोकानां, व्यवहारपथोऽपि हि । त्वयैव मोक्षवर्मेव, सम्यक् प्रकटयिष्यते ।। ७६३ ।। तल्लोकव्यवहाराय, पाणिग्रहमहोत्सवम् । विधीयमानं भवतेच्छामि नाथ ! प्रसीद मे ।। ७६४ ।। सुमङ्गलासुनन्दे च, देव्यौ भुवनभूषणे । स्वानुरूपे रूपवत्यौ, स्वामिन्नुद्वोढुमर्हसि ।। ७६५ ।। स्वाम्यप्यवधिनाऽज्ञासीत्, कर्म भोगफलं दृढम् । त्र्यशीति पूर्वलक्षाणां, यावद् भोक्तव्यमस्ति नः ।।७६६ ।। अवश्यभोक्तव्यमिदं, कर्मेत्याधूनयन् शिरः । तस्थावधोमुखः स्वामी, तदा सायं सरोजवत् ।। ७६७ ।। अथ भर्तुरभिप्रायमुपलक्ष्य पुरन्दरः । विवाहकर्मारम्भाय, सद्यो देवानजूहवत् ।। ७६८ ।। अथाभियोगिका देवाः, पाकशासनशासनात् । मण्डपं रचयामासुः, सुधर्माया इवाऽनुजम् ।। ७६९ ।। स्वर्णमाणिक्यरजतस्तम्भास्तत्र चकाशिरे । मेरुरोहणवैताढ्यचूलिका इव रोपिताः ।। ७७० ।। शातकुम्भमयास्तत्र, कुम्भाः प्रद्योतकारिणः । चक्रिणः काकणीरत्नमण्डलानीव रेजिरे ।। ७७१ ।। सुवर्णवेदिकास्तत्र, बभुरुद्यद्भिरंशुभिः । पर्यस्यन्त्य इवाऽऽदित्यं, तेजोऽन्यदसहिष्णवः ॥ ७७२ ।। प्रविशन्तो मणिशिलाभित्तिषु प्रतिबिम्बिताः । के के न प्राप्नुवंस्तत्र, परिवारपरिक्रियाम् ? ।। ७७३ ।। रत्नस्तम्भव्यवष्टब्धाः, सङ्गीतश्रान्तनर्तकीः । विडम्बयन्त्यस्तत्रोच्चैः, शालभञ्ज्यो बभासिरे ॥ ७७४ ।। तोरणानि प्रतिदिशं, सन्तानतरुपल्लवैः । तत्राऽभूवन् धनूंषीव, सज्जितानि मनोभुवा ।। ७७५ ।। स्फाटिकद्वारशाखासु, बभुर्नीलाश्मतोरणाः । शरदभ्रावलीमध्यस्थितकीरालिसन्निभाः ।। ७७६ ।।
ऋषभप्रभो.
पाणि
ग्रहणम् ।
।।११६॥
१ मोक्षाय I* त्रिषष्टिं पूर्व ।२ पुत्तलिकाः ।