________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ११५ ॥
जो काञ्चनतूणीराविव कामस्य बिभ्रती । आनुपूर्व्यपृथू वृत्तावूरू करिकरोपमौ ॥ ७४६ ।। कन्दर्पद्यूतकृत्स्वर्णशाराफलकविभ्रमम् । बिभ्राणेन नितम्बेन, मांसलेन गरीयसा ॥ ७४७ ।। मुष्टिग्राह्येण मध्येनाऽऽकर्षेणेव मनोभुवः । तस्यैवाऽऽक्रीडवाप्येव, नाभिदेशेन शोभिता ।। ७४८ ।। रूपास्तत्रिजगत्स्त्रैणजयरेखात्रयीमिव । वलीतरङ्गत्रितयीमुदरेण च ब्रिभती ।। ७४९ ।। धारयन्ती रतिप्रीत्योः, क्रीडाशैलाविव स्तनौ । तयोरेव स्वर्णदोलायटी इव च दोलते ।। ७५० ।। कण्ठेन च त्रिरेखेण, कम्बुविभ्रमहारिणा । अधरेण पराभूतपक्वबिम्बफलत्विषा ।। ७५१ ।। दन्तरधरशुक्त्यन्तःस्थितैर्मुक्ताकणैरिव । नासया नेत्रनलिननालेनेवाऽतिहारिणी ।। ७५२ ।। गण्डौ भालस्पर्द्धयेवाऽद्धेन्दुलक्ष्मीमलिम्लुचौ । दधती कुन्तलांश्चाऽऽस्यपद्मलग्नानलीनिव ।। ७५३ ।। सर्वाङ्गसुभगा पुण्यलावण्यामृतकूलिनी । वनान्तर्वनदेवीव, सञ्चरन्ती व्यराजत ।। ७५४ ।।
॥ दशभिः कुलकम् ।। ततश्चैकाकिनी मुग्धां, मिथुनान्यवलोक्य ताम् । किङ्कर्त्तव्यविमूढानि, श्रीनाभेरुपनिन्यिरे ।। ७५५ ।। एषा ऋषभनाथस्य, धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ।। ७५६ ।। अत्रान्तरेऽवधिज्ञानप्रयोगेण पुरन्दरः । भर्तुर्विवाहसमयं, ज्ञात्वा तत्र समाययौ ।। ७५७ ।। प्रणम्य चरणौ पत्युः, पत्तिमात्र इवाऽग्रतः । स्थित्वा दिवस्पतिर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ।। ७५८ ।। अज्ञो ज्ञाननिधिं नाथं, यो मन्त्रणधिया पुमान् । प्रविवर्त्तयिषेत् कार्येषूपहासास्पदं हि सः ।।७५९ ॥ स्वामिनाऽतिप्रसादेन, सदा भृत्या हि वीक्षिताः । स्वच्छन्दमपि जल्पन्ति, कदाचिदपि किञ्चन ।। ७६०।। विदित्वा स्वाम्यभिप्रायं, ये प्राहुस्ते हि सेवकाः । अज्ञात्वा यद् ब्रुवे तत्राऽप्रसादं नाथ ! मा कृथाः ।।७६१ ।।
सुनन्दाया उत्पत्तिः ।
।।११५॥