________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११४ ॥
दत्तहस्तो महेन्द्रेण, यक्षरुत्क्षिप्तचामरः । धरणेन्द्रकृतद्वास्थ्यो, धृतच्छत्रः प्रचेतसा ।। ७३१ ।। विष्वक् परिवृतो देवैर्जीव जीवेति वादिभिः । अनुत्सिक्तो जगत्स्वामी, विजहार यथासुखम् ।।७३२ ॥
॥युग्मम् ॥ देवानीतासनासीनो, बलीन्द्राङ्काहितक्रमः । चमरेन्द्राङ्कपर्यङ्कविन्यस्तोत्तरविग्रहः ।। ७३३ ॥ अप्सरोभिरुभयतो, हस्तशाटकपाणिभिः । उपास्यमानोऽनासक्तः, सङ्गीतं दीव्यमैक्षत ।। ७३४ ॥
युग्मम् ॥ अन्येद्युः क्रीडया क्रीड, बालभावानुरूपया । मिथो मिथुनकं किञ्चित्, तले तालतरोरगात् ।। ७३५ ।। तदैव दैवदुर्योगात्, तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत् तालफलं महत् ।। ७३६ ।। प्रहतः काकतालीयन्यायेन स तु मूर्द्धनि । विपन्नो दारकस्तत्र, प्रथमेनाऽपमृत्युना ।। ७३७ ।। ययौ सोऽल्पकषायत्वाद्, दिवं मिथुनदारकः । तूलमप्यल्पभारत्वादाकाशमनुधावति ॥ ७३८ ॥ पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ।।७३९ ।। भ्रंशात् तस्याऽनुभावस्य, तदानीं तत्कलेवरम् । तस्थौ तथैवाऽवसंर्पत्प्रभावा ह्यवसर्पिणी ॥७४० ॥ बालिकाऽस्य द्वितीयाऽथ, निसर्गान्मौग्ध्यशालिनी । सा विक्रीतावशिष्टेव, तस्थौ तरलितेक्षणा ॥७४१ ॥ आदाय तां तज्जनकमिथुनं पर्यवर्द्धयत् । नामधेयं पुनस्तस्याः, सुनन्देति विनिर्ममे ॥७४२ ॥ दिनैः कतिपयैस्तस्या, विपन्नौ पितरावपि । जातापत्यानि युग्मानि, जीवन्ति कियदेव हि ? ॥ ७४३ ।। किङ्कर्त्तव्यजडा साऽपि, बालिका लोललोचना । यूथभ्रष्टा कुरङ्गीव, बभ्रामैकाकिनी वने ॥७४४ ।। सरलाङ्गुलिपत्राभ्यां, सा पदाभ्यां पदे पदे । विकस्वराणि पद्मानि, रोपयन्तीव भुव्यपि ।। ७४५ ॥ १ निर्गतः । २ उत्तरकायः । ३ महापक्षिणः । ४ हीयमानप्रभावा ।
सुनन्दाया उत्पत्तिः ।
।।११४॥