________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ११३ ॥
विमलं वर्त्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवाऽपरो लाञ्छनवर्जितः ॥७१५।। मसृणौ मांसलौ स्निग्धौ, कपोलफलकौ प्रभोः । दर्पणाविव सौवर्णौ, वाग्लक्ष्म्योः सहवासयोः ।। ७१६ ॥ अन्तरावर्तसुभगौ, कर्णौ स्कन्धावलम्बिनौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शक्तिके इव ॥ ७१७ ॥
बिम्बम दन्ता, द्वात्रिंशत् कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ ७१८॥ अह्रस्वदीर्घं चिबुकं, मांसलं वर्तुलं मृदु । मेचकं बहलं स्निग्धं, कोमलं श्मश्रु तायिनः ॥७१९ ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला । प्रभोर्जिह्वाऽनतिस्थूला, द्वादशाङ्गागमार्थसूः ॥७२० ॥ अन्तरा कृष्णधवले, प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥७२१॥ ते च कर्णान्तविश्रान्ते, कज्जलश्यामपक्ष्मणी । विकस्वरे तामरसे, निलीनालिकुले इव ॥ ७२२ ॥ बिभराञ्चक्रतुर्भर्तुः, श्यामले कुटिले भ्रुवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥ ७२३ ॥ विशालं मांसलं वृत्तं, कठिनं मसृणं समम् । भालस्थलं जगद्भर्त्तुरष्टमीसोमसोदरम् ॥ ७२४ ॥ भुवनस्वामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ।। ७२५ ।। मौलिच्छत्रे महेशस्य, जगदीशत्वशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं, शिश्रिये कलसश्रियम् ॥ ७२६ ॥
शाश्चकाशिरे मूर्हिन, प्रभोर्भ्रमरमेचकाः । कुञ्चिताः कोमलाः स्निग्धाः, कालिन्द्या इव वीचयः ॥ ७२७ ॥ गोरोचनागर्भगौरी, स्निग्धस्वच्छा त्वगाबभौ । स्वर्णद्रवविलिप्तेव, तनौ त्रिजगदीशितुः ॥ ७२८ ॥ मृदूनि भ्रमरश्यामान्यद्वितीयोगमानि च । बिसतन्तुतनीयांसि, लोमानि स्वामिनस्तनौ ।। ७२९ ।। इत्यसाधारणैर्नानालक्षणैर्लक्षितः प्रभुः । रत्नै रत्नाकर इव, सेव्यः कस्येव नाऽभवत् ? ।। ७३० ॥
प्रथमं पर्व
द्वितीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
ऋषभस्य
यौवनं
देहशोभा
लक्षणानि
च ।
।। ११३ । ।