________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११२॥
स्वामिनः कुञ्जरस्येव, मुष्कौ गूढौ समस्थिति । अतिगूढं च पृश्चिह्न, कुलीनस्येव वाजिनः ।। ६९९।। तच्चाऽसिरमनिम्नोच्चमहस्वादीर्घमश्लथम् । सरलं मृदु निर्लोम, वर्तुलं सुरभीन्द्रियम् ।।७००।। शीतप्रदक्षिणावर्त्तशब्दयुक्तैकधारकम् । अबीभत्सावर्ताकारकोशस्थं पिञ्जरं तथा ।। ७०१।। आयता मांसला स्थूला, विशाला कठिना कटिः । मध्यभागस्तनुत्वेन, कुलिशोदरसोदरः ।।७०२।। नाभिर्बभार गम्भीरा, सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ, कोमलौ सरलौ समौ ।।७०३।। अधाद् वक्षःस्थलं स्वर्णशिलापृथुलमुन्नतम् । श्रीवत्सरत्नपीठाई, श्रीलीलावेदिकाश्रियम् ।।७०४॥ दृढपीनोन्नतौ स्कन्धौ, ककुद्मत्ककुदोपमौ । अल्परोमोन्नते कक्षे, गन्धस्वेदमलोज्झिते ।।७०५।। पीनौ पाणिफणाच्छनौ, भुजावाजानुलम्बिनौ । चञ्चलाया नियमने, नागपाशाविव श्रियः ।।७०६।। नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अस्वेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ।।७०७।। दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कशैः । ध्वजाब्जचामरच्छत्रशकुम्भाब्धिमन्दरैः ।।७०८।। मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः, पाणी पादाविवाऽङ्कितौ ।।७०९।। ।। युग्मम्।। अङ्गुष्ठोऽडलयः शोणाः, सरलाः शोणपाणिजा । प्ररोहा इव कल्पद्रोः, प्रान्तमाणिक्यपुष्पिताः ।।७१०।। यवाः स्पष्टमशोभन्त, स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य, पुष्टिवैशिष्ट्यहेतवः ।।७११।। अङ्गुलीमूर्द्धसु विभोः, सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता, दक्षिणावर्त्तशङ्खताम् ।।७१२॥ कृच्छ्रादुद्धरणीयानि, जगन्ति त्रीण्यपीत्यभान् । सङ्ख्यालेखा इव तिस्रो, लेखा मूले कराब्जयोः ।।७१३॥ वर्तुलोऽनतिदीर्घश्च, लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्त, कण्ठः कम्बुविडम्बनाम् ।।७१४।।
ऋषभस्य यौवनं देहशोभा लक्षणानि च।
।। ११२।।