________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १११ ॥
अङ्गुष्ठपानावस्थायाः, परस्ताद् वयसि स्थिताः । गृहवासेऽपरेऽर्हन्तः, सिद्धमन्नं हि भुञ्जते ।। ६८३।। देवानीतोत्तरकुरुफलानि बुभुजे सदा । क्षीरोदवारि च पपौ, भगवान्नाभिनन्दनः ।। ६८४।। बाल्यं कल्यमिवोलच्य, मध्यन्दिनमिवाऽर्यमा । विभुर्विभक्तावयवं, द्वितीयं शिश्रिये वयः ।। ६८५॥ यौवनेऽपि मृदू रक्तौ, कमलोदरसोदरौ । उष्णावकम्प्रावस्वेदौ, पादौ समतलौ प्रभोः ।। ६८६।। नतार्तिच्छेदनायेव, प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरणोरिव दामाङ्कुशध्वजाः ।। ६८७।। स्वामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शकुम्भौ तले पाणी, स्वस्तिकश्च विरेजिरे ।। ६८८॥ मांसलो वर्तुलस्तुङ्गो, भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स, इव श्रीवत्सलाञ्छितः ।।६८९।। प्रभोर्निर्वातनिष्कम्पस्निग्धदीपशिखोपमाः । नीरन्ध्रा ऋजवोऽड्डुल्यो, दलानीव पदाब्जयोः ।। ६९०।। नन्द्यावर्ता जगद्भर्तुः, पादाङ्गुलितलेष्वभान् । यद्बिम्बानि क्षितौ धर्मप्रतिष्ठाहेतुतां ययुः ।।६९१॥ यवाः पर्वस्वमुलीनामधो वापीभिराबभुः । उप्ता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ।। ६९२।। कन्दः पादाम्बुजस्येव, पाणिर्वृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां, फणामणिनिभा नखाः ।।६९३।। हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितेनाते, नितान्तं स्वामिपादयोः ।। ६९४।। प्रभोः पादावुपर्यानुपूर्व्या कूर्मवदुन्नतौ । अप्रकाशशिरौ स्निग्धच्छवी लोमविवर्जितौ ।। ६९५॥ अन्तर्मग्नास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ, जो गौर्यो जगत्पतेः ।। ६९६।। जानुनी स्वामिनोऽधाता, वर्तुले मांसपूरिते । तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥६९७।। ऊरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ । बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ।। ६९८॥
ऋषभस्य यौवनं देहशोभा लक्षणानि
च।
॥१११॥