________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११०॥
जग्राह पाणिना स्वामी, यत् किञ्चिल्लीलयाऽपि हि । महर्द्धिकोऽपि त्रिदशो, न तदाच्छेतुमीश्वरः ॥६६८॥ बलं परीक्षितुमधादङ्गुलीमपि यः प्रभोः । स श्वासपवनेनाऽपि, ययौ दूरेण रेणुवत् ।। ६६९।। स्वामिनं रमयामासुः, केचित् सुरकुमारकाः । विचित्रैः कन्दुकै मौ, लुठन्तः कन्दुका इव ।। ६७०॥ चाटूनि जीव जीवेति, नन्द नन्देत्यनेकशः । केऽपि राजशुकीभूय, चाटुकारा इवाऽवदन् ।। ६७१।। स्वामिनो रमणायैके, केकीभूय दिवौकसः । केकाप्रधानाः पुरतो, ननृतुः षड्जगायिनः ॥ ६७२।। हंसीभूयाऽपरे चेरुः, पार्चे गान्धारराविणः । प्रभोः सलीलहस्ताब्जग्रहणस्पर्शतृष्णया ।। ६७३।। क्रौञ्चीभूयाऽग्रतः केऽपि, मध्यमाराविणोऽरसन् । स्वामिनः प्रीतिमष्टिपातामृतपिपासिताः ॥६७४।। केऽपि पुंस्कोकिलीभूय, पञ्चमस्वरमुज्जगुः । स्थित्वोपस्वामितरुषु, तन्मनःप्रीतिहेतवे ।। ६७५॥ आययुस्तुरगीभूय, धैवतध्वनिहेषिणः । स्वामियानतयाऽऽत्मानं, पिपावयिषवोऽपरे ।। ६७६।। केऽप्येयुः कलभीभूय, निषादस्वरराविणः । स्पृशन्तोऽधोमुखीभूय, करेण चरणौ प्रभोः ।। ६७७॥ केचिच्च वृषभीभूय, ऋषभस्वरबन्धुराः । ताडयन्तस्तटीः शृङ्गैर्दृग्विनोदं व्यधुर्विभोः ।। ६७८।। महिषीभूय केऽप्यस्थुरञ्जनाचलसन्निभाः । युध्यमाना मिथो युद्धक्रीडां भर्तुरदर्शयन् ।। ६७९।। केऽपि भर्तुर्विनोदायाऽऽस्फालयन्तो भुजान् मुहुः । मल्लीभूयाऽक्षवाटान्तराह्वासेत परस्परम् ॥ ६८०॥ एवं विनोदैर्विविधैर्वृन्दारककुमारकैः । उपास्यमानः सततं, परमात्मेव योगिभिः ।। ६८१॥ ताभिर्धात्रिभिरुद्यानपालीभिरिव पादपः । अप्रमत्तं लाल्यमानः, क्रमेण ववृधे प्रभुः ।। ६८२।।
॥सन्दानितकम् ।। * णो बभुः । १ मल्लयुद्धभूमिप । मन...
ऋषभस्य देवैः सह क्रीडनम् ।
।। ११०॥