________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
।।१०९ ॥
भगवान् शुशुभे बालः, पितुरुत्सङ्गमाश्रितः । अङ्के शिखरिणः सिंहकिशोर इव भासुरः ॥ ६५२ ।। शक्रादिष्यश्च धात्र्यस्ताः, पञ्चाऽपि परमेश्वरम् । महामुनि समितय, इवाऽमुञ्चन् न जातुचित् ।। ६५३ ।। स्वामिनो जन्मनः किञ्चिदूने संवत्सरे सति । सौधर्मवासवो वंशस्थापनार्थमुपाययौ ।। ६५४॥ भृत्येन रिक्तहस्तेन, न कार्य स्वामिदर्शनम् । इति बुद्धयेव महतीमिक्षुयष्टिं स आददे ।। ६५५ ।। सेक्षुयष्टिः सुनासीरः, शरत्काल इवाऽङ्गवान् । नाभ्युत्सङ्गनिषण्णस्य, जगाम स्वामिनोऽग्रतः ।। ६५६ ॥ ज्ञात्वा च शक्रसङ्कल्पमवधिज्ञानतो विभुः । तामिक्षुयष्टिमादातुं, करीव करमक्षिपत् ।। ६५७।। प्रणम्य शिरसा शक्रः, स्वामिने भाववित् ततः । अर्पयामास तामिक्षुलतिकामुपदामिव ।। ६५८॥ यदिक्षुराददे भत्रेक्ष्वाकुरित्याख्यया ततः । स्वामिवंशं प्रतिष्ठाप्य, दिवस्पतिरगाद् दिवम् ।। ६५९॥ देहो युगादिनाथस्य, स्वेदामयमलोज्झितः । सुगन्धिः सुन्दराकारस्तपनीयारविन्दवत् ।। ६६०॥ गोक्षीरधाराधवले, अविने मांसशोणिते । आहारनीहारविधिलॊचनानामगोचरः ।। ६६१ ॥ उत्फुलकुमुदामोदसोदरं श्वाससौरभम् । चत्वारोऽतिशया एते, बभूवुर्जन्मना सह ॥ ६६२ ।। वजऋषभनाराचं, दधत् संहननं प्रभुः । मन्दं चचाल पादाभ्यां, भूमिभ्रंशभयादिव ।। ६६३।। प्रभुर्बभाषे बालोऽपि, गम्भीरमधुरध्वनिः । नृणां लोकोत्तराणां हि, बाल्यं वपुरपेक्षया ॥६६४।। संस्थानं स्वामिनस्तुल्यचतुरस्रमशोभत । श्रियां रिरंसमानानां, क्रीडावेदीव काञ्चनी ।। ६६५।। सवयोभूय सम्भूयाऽऽयातैः सुरकुमारकैः । अरंस्त वृषभस्वामी, तेषां चित्तानुवृत्तये ।। ६६६॥ धूलीधूसरसर्वाङ्गो, बिभ्राणो घर्घरस्रजम् । कलभोऽन्तर्मदावस्थ, इव क्रीडन् बभौ विभुः ॥६६७॥
इक्ष्वाकुवंशस्थापनम् ।
॥ १०९॥