________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥१०८ ॥
चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पालाश्चक्रुरष्टाह्निकोत्सवम् ॥ ६३६ ।। ईशानेन्द्रोऽप्यवातारीदुत्तराशाप्रतिष्ठिते । रमणीयाह्वये नित्यरमणीयेऽञ्जनाचले ।। ६३७ ।। तत्र चैत्ये तावतीनां, शाश्वतीनां तथैव सः । प्रतिमानामाईतीनां, चकाराऽष्टाह्निकोत्सवम् ॥ ६३८॥ तस्याऽपि लोकपालास्तद्वापीदधिमुखाद्रिषु । शाश्वताहत्प्रतिमानां, तद्वद् विदधुरुत्सवम् ।। ६३९ ।। चरमेन्द्रोऽप्युत्ततार, दक्षिणाशाव्यवस्थिते । नित्योढ्योताभिधे रत्ननित्योपयोतेऽञ्जनाचले ।। ६४० ।। भक्त्या महत्या तत्राऽयमपि चैत्ये यथाविधि । शाश्वतीनां प्रतिमानां, विदधेऽष्टाह्निकोत्सवम् ।। ६४१ ।। तद्वाप्यन्तर्दधिमुखाचलेष्वचलचेतसः । चक्रुर्जिनप्रतिमानां, तद्दिक्पाला महोत्सवम् ।। ६४२ ॥ अवातरद् बलीन्द्रोऽपि, पश्चिमाशानिवासिनि । स्वयम्प्रभाभिधेऽम्भोदप्रभाचौरेऽञ्जनाचले ।। ६४३ ।। शाश्वतीनामृषभादिप्रतिमानामसावपि । उत्सवं विदधे तद्वद्, दिविषदृष्टिपावनम् ।। ६४४ ।। तत्पुष्करिणीकान्तःस्थेषूच्चैर्दधिमुखाद्रिषु । चक्रुस्तस्याऽपि दिक्पालाः, शाश्वतप्रतिमोत्सवम् ।। ६४५ ।। इति नन्दीश्वरे चैत्यमहिमानं विधाय ते । पथा यथागतेनैव, स्वं स्वं स्थानं ययुः सुराः ।। ६४६ ।। स्वामिनी मरुदेवाऽपि, सम्प्रबुद्धाऽथ नाभये । नैशं स्वप्नमिवाऽमर्त्यसम्पातं तमचीकथत् ।। ६४७ ।। ऊरुप्रदेशे ऋषभो, लाञ्छनं यज्जगत्पतेः । ऋषभः प्रथमं यच्च, स्वप्ने मात्रा निरीक्षितः ।। ६४८ ।। तत् तस्य ऋषभ इति, नामोत्सवपुरःसरम् । तौ मातापितरौ हृष्टी, विदधाते शुभे दिने ।। ६४९ ।। तदा च युग्मजातायाः, कन्याया अपि पावनम् । सुमङ्गलेति पितरौ, यथार्थ नाम चक्रतुः ॥६५० ।। शक्रसङ्क्रमितां स्वामी, निजामुष्ठे सुधामथ । पिबति स्म यथाकालं, कुल्याजलमिवाऽङ्ग्रिपः ।। ६५१ ॥
देवानां नन्दीश्वरे गमनं,
ऋषभ इति प्रभोर्नामकरणं च ।
।। १०८॥