________________
त्रिषष्टिशलाकापुरुषचरिते
।। १०७ ।।
सांसारिक सुखोत्पादि, महार्घं वस्तु सर्वतः । स्वामिनो भवनेऽमुष्मिन्निधेह्यप इवाऽम्बुदः ।। ६२२ ।। ।। त्रिभिर्विशेकम् ।। कुबेरः कारयामास तत् सद्यो जृम्भकामरैः । आज्ञा ह्याज्ञाप्रचण्डानां वचसा सह सिध्यति ।। ६२३ ।। अथाभियोगिकान् देवानादिदेशेति वासवः । उच्चैर्देवनिकायेषु चतुर्ष्वघुष्यतामिदम् ॥ ६२४ ।। अर्हतोऽर्हजनन्याश्च योऽशुभं चिन्तयिष्यति । तस्याऽर्जकर्मञ्जरीवत्, सप्तधा भेत्स्यते शिरः ||६२५ ।। भवनपतिव्यन्तरज्योतिर्वैमानिकेषु तत् । ते समुज्जुघुषुः शिष्या वाचमुच्चैर्गुरोरिव ।। ६२६ ॥ शक्रः सङ्क्रमयामास, नानाहाररसामृतम् । स्वाम्यङ्गुष्ठेऽमृतानाडीचक्रे भानुरिवाऽम्मयम् ।। ६२७ ।। अर्हन्तोऽस्तन्यपा यस्मात्, किन्तु क्षुदुदये सति । प्रक्षिपन्ति मुखेऽङ्गुष्ठं, स्वमेव रसवर्षिणम् ।। ६२८ ॥ धात्रीकर्माणि सर्वाणि, निर्मापयितुमीशितुः । धात्रीरप्सरसः पञ्चाऽऽदिदेश घुसदांपतिः ।। ६२९ ॥ तदा च बहवो देवा, जिनस्नात्रादनन्तरम् । सुमेरुशिखरादेव, द्वीपं नन्दीश्वरं ययुः ।। ६३० ।। श्रीनाभिसूनुसदनात्, सौधर्मेन्द्रोऽपि च द्रुतम् । ययौ नन्दीश्वरद्वीपं निवासं स्वर्गवासिनाम् ॥ ६३१ ।। तत्र शक्रः क्षुद्रमेरुप्रमाणे पूर्वदिस्थिते । नामतो देवरमणेऽञ्जनाद्राववतीर्णवान् ।। ६३२ ।। तत्र चैत्ये चतुर्द्वारि, विचित्रमणिपीठिके । चैत्यद्रुमेन्द्रध्वजाङ्के, प्राविशद् घुसदांपतिः ।। ६३३ ।। ऋषभप्रभृतीरर्हत्प्रतिमास्तत्र शाश्वतीः । यथावत् पूजयामास, सोऽथयारम्भपूर्वकम् ।। ६३४ ॥ तस्य चाऽद्रेश्चतुर्दिक्स्थमहावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि ।। ६३५ ।।
१ अर्जकवृक्षस्य मञ्जरीवत् । २ प्रभूता आपो यत्र तद् अम्मयम् ।
66
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
देवानां
नन्दीश्वरे
गमनम् ।
1190911