________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥ १२० ॥
तयोरारोपयामासुः, पादयो रत्ननूपुरौ । झणज्झणिति कुर्वाणौ, स्तुवन्ताविव तद्गुणान् ।। ८२२ ।। सज्जयित्वैवमुत्पाट्य, देव्यौ देवीजनेन ते । नीत्वा मातृगृहस्याऽन्तरासिते काञ्चनासने ।। ८२३ ॥ विवाहसज्जीभवनायोपेत्य नमुचिद्विषा । विज्ञप्यमानो निर्बन्धात्, प्रभुवृषभलाञ्छनः ।। ८२४ ।। दर्शनीया स्थितिर्लोके, भोक्तव्यं भोग्यकर्म च । अस्ति मे चिन्तयित्वैवमन्वमन्यत तद्वचः ।। ८२५ ॥
॥युग्मम् ।। अथ स्वामी महेन्द्रेण, स्नपयित्वा विलिप्य च । यथाविधि विधिज्ञेन, भूषितो भूषणादिना ।। ८२६ ।। वेत्रिणेव महेन्द्रेण, शोध्यमानाग्रवर्त्मकः । उत्तार्यमाणलवणः, पार्श्वयोरप्सरोजनैः ।। ८२७ ।। इन्द्राणीभिर्गीयमानश्रेयोधवलमङ्गलः । सामानिकादिदेवीभिः, क्रियमाणावतारणः ।। ८२८ ।। गन्धर्वीधैर्वाद्यमानातोद्यः सद्योभुवा मुदा । स्वामी दिव्येन यानेन, मण्डपद्वारमाययौ ।। ८२९ ।। स्वामी स्वयं विधिज्ञोऽथ, यानादुत्तीर्य तत्र तु । अब्धिवेलेव मर्यादालताभूमाववास्थित ।। ८३० ।। तत्र त्रिदशनाथेन, दत्तबाहुर्बभौ विभुः । महीरुहमवष्टम्भ्य, स्तम्बेरम इव स्थितः ।। ८३१ ।। तटत्त्रटिति कुर्वाणलवणानलगर्भितम् । सरावसम्पुटं द्वारि, मुमुचुर्मण्डपस्त्रियः ।। ८३२ ।। रूप्यस्थालं च दूर्वादिमङ्गल्यद्रव्यलाञ्छितम् । काऽप्यग्रे धारयामास, राकेव मृगलाञ्छनम् ।। ८३३ ॥ पञ्चशाखेन वैशाखं, प्रत्यक्षमिव मङ्गलम् । उत्क्षिप्याऽर्घाय काऽप्यग्रे, कौसुम्भवसनाऽभवत् ।। ८३४ ।। देह्यर्घमघदेऽाय, क्षणं म्रक्षणमुत्क्षिप । स्थालादुद्धेहि च दधि, पीयूषमुदधेरिव ।। ८३५ ।। सुन्दरे ! नन्दनाऽऽनीतचन्दनद्रवमुन्नय । आहृतां भद्रशालोा , दूर्वां समृदमुद्धर ।। ८३६ ।।
ऋषभप्रभोः पाणिग्रहणम् ।
।। १२०||