________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १०५ ॥
वृत्तोरुमौक्तिकमणिकङ्कणे मणिबन्धयोः । स न्यधत्त प्रभोः शाखिशाखान्तस्तबकोपमे ।। ५९३ ॥ स स्वर्णकटिसूत्रं च, कटिदेशे न्यधाद् विभोः । वर्षधरनितम्बस्थस्वर्णकूलाविलासभृत् ।। ५९४ ॥ माणिक्यपादकटके, स न्यवीविशदीशितुः । अङ्योर्लग्ने देवदैत्यतेजसी इव सर्वतः ।। ५९५ ।। अलङ्काराय यानीन्द्रो, भूषणानि न्यवीविशत् । अलङ्कृतानि तान्येव, प्रत्युताङ्गैर्जगद्गुरोः ।। ५९६ ॥ उन्निद्रपारिजातादिदामभिः परमेश्वरम् । भक्तिवासितचेतस्कः, पूजयामास वासवः ।। ५९७ ।। कृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ।। ५९८ ॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः । भास्वदोषधिचक्रेण, शृङ्गेणेव महागिरिः ।। ५९९ ।। श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास, तत्त्रिस्त्रिदशपुङ्गवः ।। ६०० ॥ शक्रः शक्रस्तवेनाऽथ !, वन्दित्वा परमेश्वरम् । रोमाञ्चितवपुर्भक्त्या, स्तोतुमित्युपचक्रमे ॥६०१ ।। नमस्तुभ्यं जगन्नाथ !, त्रैलोक्याम्भोजभास्कर ! । संसारमरुकल्पद्रो!, विश्वोद्धरणबान्धव! ।६०२ ।। वन्दनीयो मुहूर्तोऽयं, यत्र ते धर्मजन्मनः । अपुनर्जन्मनो जन्म, दुःखच्छिद् विश्वजन्मिनाम् ॥ ६०३ ॥ युष्मजन्माभिषेकाम्भःपूरैराप्लाविताऽधुना । अयत्नक्षालितमला, सत्या रत्नप्रभा प्रभो! ॥६०४ ।। मनुष्याः खलु ते धन्या, ये त्वां द्रक्ष्यन्त्यहर्निशम् । यथासमयमेव त्वां, द्रष्टारः कीदृशा वयम् ? ।। ६०५ ।। भरतक्षेत्रजन्तूनां, मोक्षमार्गोऽखिलः खिलः । त्वया नूतनपान्थेन, नाथ ! प्रकटयिष्यते ।। ६०६ ॥ साऽस्तु तावत् तव सुधासध्रीची धर्मदेशना । त्वदर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् ॥६०७ ॥
सौधर्मेन्द्र
विहित
ऋषभजिनस्नात्रोत्सवः
॥ १०५॥
१ इन्द्रः । २ अप्रहतः केनाऽप्यनाक्रान्तः ।३ ददाति ।