________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १०४ ॥
उत्तुङ्गशृङ्गरुचिरा, वृषभास्ते चकाशिरे । दिशां चतसृणां चान्द्रकान्ताः क्रीडाचला इव ।। ५७८ ॥ तेषां स्फोटितपातालनालेभ्य इव सन्तताः । शृङ्गेभ्योऽष्टभ्य उत्पेतुर्वारिधारा नभस्तले ।। ५७९ ।। मूले भिन्नास्तोयधाराधोरण्यस्ता निरन्तराः । अन्ते मिलन्त्यः खे चक्रुर्नदीसङ्गमविभ्रमम् ।। ५८० ॥ सकौतुकं वीक्ष्यमाणाः, सुरासुरवधूजनैः । ताः पेतुर्जगतांपत्यावपांपत्याविवाऽऽपगाः ॥५८१ ॥ शृङ्गेभ्यो जलयन्त्रेभ्य, इव निर्यद्भिरम्बुभिः । शक्रेण स्नपयाञ्चक्रे, भगवानादितीर्थकृत् ।। ५८२ ।। दूरमुच्छलता तेन, स्वामिस्नपनवारिणा । आसन् भक्त्या मनांसीव, वासांस्यामा॑णि नाकिनाम् ।। ५८३ ।। चतुरोऽपि महोक्षास्तानुपसंहृतवानथ । प्राचीनबर्हिः सहसेन्द्रजालमिव जालिकः ।। ५८४ ।। स्नपयित्वाऽतिविच्छादेवं देवप्रभुः प्रभोः । रत्नादर्शमिवाऽमार्जदङ्गं देवाङ्गवाससा ।। ५८५ ।। अथ रत्नमये पट्टे, निर्मलै रूप्यतन्दुलैः । अखण्डैरालिखन लेखाः, स्वामिनोऽग्रेऽष्टमङ्गलीम् ।। ५८६ ।। निजेनेवाऽनुरागेणाऽङ्गरागेण गरीयसा । अङ्गं विलेपयामास, वासवस्त्रिजगद्गुरोः ।। ५८७ ।। स्वामिनः स्मेरवक्रेन्दुकौमुदीभ्रमकारिभिः । विशदैर्दिव्यवासोभिः, पूजा व्यधित देवराट् ।। ५८८ ।। विश्वमूर्द्धन्यताचिह्न, मूर्द्धनि त्रिजगत्पतेः । वज्रमाणिक्यमुकुट, स्थापयामास वज्रभृत् ।। ५८९ ।। न्यधत्त मघवा भर्तुः, कर्णयोः स्वर्णकुण्डले । व्योम्नः पूर्वापरदिशोः, सायं शशिरवी इव ।।५९० ॥ लक्ष्म्या विभ्रमदोलेव, दिव्यमुक्तालता ततो ।न्यक्षेपि पुरुहूतेन, स्वामिनः कण्ठकन्दले ।। ५९१ ॥ सोऽङ्गदे निदधे बाहुदण्डयोस्त्रिजगत्पतेः । सुवर्णवलये भद्रकलभस्येव दन्तयोः ।। ५९२।।
सौधर्मेन्द्रविहित ऋषभजिनस्नात्रोत्सवः ।
।। १०४॥
१ समुद्रे । २ इन्द्रः ।३ देवाः ।