________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१०३ ॥
कूर्दमानाः केऽपि मेरुशिखराण्यङ्घ्रिदर्दरैः । अकम्पयन् भृशं शाखिशाखाः शाखामृगा इव ।। ५६२ ।। उद्भटं ताडयामासुश्चपेटाभिर्महीतलम् । रणप्रतिज्ञाकरणोद्यता वीरा इवाऽपरे ।। ५६३ ॥ कोलाहलं विदधिरे, केचिज्जितपणा इव । स्कन्धातोद्यवदुत्फुल्लौ, गल्लौ केचिदवादयन् ॥ ५६४ ॥ विकृतीभूय विटवत्, केऽपि लोकानहासयन् । केऽप्यग्रे पार्श्वयोः पश्चाद्, ववल्गुः कन्दुका इव ।। ५६५ ।। केचिच्च मण्डलीभूय, रासावलयगायिनः । चक्रुर्तृत्तं मनोहारि, हल्लीसकमिव स्त्रियः ॥ ५६६ ॥ केऽप्यज्वलन् ज्वलनवदतपन केऽपि सूर्यवत् । जगजुर्मेघवत् केऽपि, केऽपि विद्युद्वदधुतन् ।। ५६७ ।। केचिदोदनसम्पूर्णाश्छात्रा इव विचक्रिरे । तादृक् स्वाम्याप्तिजानन्दः, शक्यते केन गोपितुम् ।। ५६८ ।। बहुप्रकारमानन्दविकारं धारयत्स्वपि । देवेष्वच्युतदेवेन्द्रश्चक्रे भर्तुर्विलेपनम् ।। ५६९ ।। पारिजातादिभिः, पुष्पैर्विकसद्भिः स्वभक्तिवत् । ततोऽच्युतपतिः पूजा, चक्रे जिनपतेः स्वयम् ।। ५७० ।। अपसृत्य ततः किञ्चित्, स्वामिनं भक्तिवामनः । प्रणनाम ववन्दे च, सोऽन्तेवासीव वासवः ।। ५७१ ।।। एवं द्वाषष्टिरन्येऽपि, शक्राश्चक्रुर्जगत्पतेः । स्नात्राङ्गरागौ पूजां चाऽनुज्येष्ठं सोदरा इव ।। ५७२ ।। विकृत्य पञ्चधाऽऽत्मानमथ सौधर्मराजवत् । उत्सङ्गे त्रिजगन्नाथं, जग्राहैशानवासवः ।। ५७३ ॥ तत्रैकोऽधाद् विभोर्मूनि, छत्रं कर्पूरपाण्डुरम् । मुक्तावचूलैः प्रेवद्भिर्दिशां लास्यमिवोद्दिशत् ।। ५७४ ।। वीजयामासतुश्चाऽन्यौ, चामराभ्यां जिनेश्वरम् । विक्षिप्तकरणेनोच्चैर्नृत्यद्भ्यामिव सम्मदात् ।। ५७५ ।। शूलमुल्लालयन् पाणावपरः पुरतोऽभवत् । स्वामिनो दृष्टिपातैः स्वं, पूतीकर्तुमना इव ।। ५७६ ॥ अथ सौधर्मकल्पेन्द्रो जगद्भर्तुश्चतुर्दिशम् । चत्वारि स्फाटिकोत्तुङ्गवृषरूपाणि निर्ममे ।। ५७७ ।।
PRASHASHAASARASWAS
अच्युतेन्द्रविनिर्मित ऋषभजिनस्नात्रोत्सवः ।
॥ १०३ ॥