SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् । ॥१०२ ।। केचिदन्दोलयामासुश्चामराण्यमरोत्तमाः । आह्वयन्त इवाऽऽत्मीयान्, स्वामिदर्शनहेतवे ॥५४७ ॥ केचिद् बद्धपरिकरा, बिभ्राणाः स्वस्वमायुधम् । परितः स्वामिनं तस्थुरात्मरक्षा इवाऽमराः ॥ ५४८ ॥ सुराः केचिन्मणिस्वर्णतालवृन्तान्यचीचलन् । उद्यद्विद्युल्लतालीला, दर्शयन्तो नभस्तले ॥ ५४९ ॥ विचित्रदिव्यसुमनोवृष्टिं त्रिदिववासिनः । हर्षोत्कर्षजुषोऽकार्पू, रङ्गाचार्या इवाऽपरे ॥ ५५० ॥ नितान्तसुरभि गन्धद्रव्यक्षोदं चतुर्दिशम् । अवर्षन्नपरे चूर्णमुच्चाटनमिवाहसाम् ।। ५५१ ॥ स्वामिनाऽधिष्ठितस्याऽद्रेर्मेरोद्धिमिवाऽधिकाम् । चिकीर्षवः केऽपि सुराः, स्वर्णवृष्टिं वितेनिरे ।। ५५२ ।। स्वामिपादप्रणामावतरत्ताराविडम्बिनीम् । केचिदुच्चै रत्नवृष्टिं, त्रिविष्टपसदो व्यधुः ।। ५५३ ।। गन्धर्वानीकमधरीकुर्वन्तो मधुरस्वरैः । ग्रामरागैर्नवनवैः, केचन स्वामिनं जगुः ॥ ५५४॥ ततान्यथाऽवनद्धानि, घनानि शुषिराणि च । वादयामासुरातोद्यान्यन्ये भक्तिर्खनेकधा ।। ५५५ ।। निनर्तयिषव इव, स्वर्णशैलशिरांस्यपि । पादपातैः कम्पयन्तो, ननृतुः केऽपि नाकिनः ।। ५५६ ।। नाट्यं प्रवर्त्तयामासुर्विचित्राभिनयोज्ज्वलम् । त्रिदशाः सह जायाभिर्जायाजीवा इवाऽपरे ।। ५५७ ।। गरुन्मन्त इवोत्पेतुरमराः केचिदम्बरे । निपेतुः क्रीडया केचित्, ताम्रचूडा इवाऽवनौ ।। ५५८ ॥ ववल्गुल्गु केऽप्यङ्ककारा इव दिवौकसः । केऽपि सिंहा इवाऽऽनन्दात्, सिंहनाद वितेनिरे ।। ५५९ ।। उच्चकैश्चक्रिरे केचित्, कुञ्जरा इव बृहितम् । सहर्षा हेषितं केचित्, तेनिरे तुरगा इव ॥ ५६० ॥ स्यन्दना इव केचिच्च, व्यधुर्घणघणारवम् । विदूषका इवाऽन्येषां चक्रुः शब्दचतुष्टयीम् ।। ५६१ ।। १ रङ्गाचार्याः । २ कुकुटाः । ३ मल्लाः । अच्युतेन्द्रविनिर्मित ऋषभजिनस्नात्रोत्सवः । । १०२ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy