________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१०१ ॥
हरेः स्नपयतः कुम्भा, भवन्तोऽधोमुखा बभुः । स्नात्रस्तोकीभवद्वारिसम्पदा लज्जिता इव ॥ ५३१॥ तानेव बिभराञ्चक्रुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः, कुर्वाणाः स्वामिशासनम् ॥५३२ ॥ वृन्दारकाणां हस्तेषु, हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः, श्रीमतां बालका इव ।। ५३३ ॥ ढौक्यमानाऽभितो नाभिसूनुं कलशधोरणी । आरोप्यमाणस्वर्णाब्जमालालीलायितं दधौ ।। ५३४ ।। पुनः प्रालोठयन् कुम्भानमराः स्वामिमूर्द्धनि । पयःशब्दायितमुखानर्हत्स्तुतिपरानिव ।। ५३५ ॥ स्वामिस्नात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमराश्चक्रिणो यक्षा, निधानकलशानिव ।। ५३६ ।। रिक्तरिक्ता भृतभृता, रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टयटिका इव ।। ५३७ ॥ एवमच्युतनाथेन, यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ।। ५३८ ॥ दिव्यया गन्धकाषाय्याऽऽरणाच्युतविभुर्विभोः । अङ्गमुन्मार्जयामास, स्वयं मार्जितमान्यथ ।। ५३९ ।। सा रेजे गन्धकाषायी, स्पृशन्ती स्वामिनो वपुः । प्रातःसन्ध्याभ्रलेखेव, मण्डलं चण्डरोचिषः ।। ५४० ।। सुवर्णसारसर्वस्वं, सुवर्णाद्ररिवैकतः । आहूतं शुशुभे तादृगुन्मृष्टं भगवद्वपुः ।। ५४१ ॥ अथाऽऽभियोग्या गोशीर्षचन्दनद्रवकर्दमम् । पात्रिकाभिर्विचित्राभिरच्युतायोपनिन्यिरे ॥ ५४२ ।। विलेपयितुमारेभे, प्रभुं तेन पुरन्दरः । सुमेरुशैलकटकं, ज्योत्स्नयेव निशाकरः ।।५४३ ।। अभितः स्वामिनं केचिदुत्तरासङ्गधारिणः । उद्दामधूपदहनपाणयोऽस्थुरथाऽमराः ।। ५४४ ।। केऽपि तत्राऽक्षिपन् धूपं, स्निग्धया धूमलेखया । मेरोर्नीलमयीं चूला, रचयन्त इवाऽपराम् ॥ ५४५ ।। केऽपि श्वेतातपत्राणि, धारयामासुरुच्चकैः । कुमुद्वदिव कुवार्णा, अन्तरिक्षमहासरः ।। ५४६ ॥
अच्युतेन्द्रविनिर्मित ऋषभजिनस्नात्रोत्सवः ।
॥१०१ ॥