________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १०० ॥
तेऽम्भस्कुम्भाः शुशुभिरे, लुठन्तः स्वामिमूर्द्धनि । सुमेरुशैलशिखरे, वर्षन्त इव वारिदाः ।। ५१७ ।। अमरैर्नाम्यमानास्ते, मूर्द्धन्युभयतः प्रभुम् । सद्यः सङ्घटयामासुर्माणिक्योत्तंसविभ्रमम् ।। ५१८ ।। कुम्भेभ्यः पूजितास्येभ्यस्ताः पतन्त्यश्चकाशिरे । वारिधारा गिरिदरीमुखेभ्य इव निर्झराः ।। ५१९ ।। उच्छलन्त्यो मौलिदेशाद्, विष्वद्रीच्यो जलच्छटाः । स्वामिनो धर्मकन्दस्य, प्ररोहा इव रेजिरे ।। ५२० ।। परिवेषेण विस्तीर्ण, मूर्ध्नि श्वेतातपत्रवत् । ललाटपट्टे प्रसरच्चान्दनीव ललाटिका ।। ५२१ ।। कर्णयोः प्रान्तविश्रान्तनयनोपान्तकान्तिवत् । कपोलपाल्योः कर्पूरपत्रवल्लिवितानवत् ।। ५२२ ।। मनोज्ञयोरधरयोः, स्मितद्युतिकलापवत् । कण्ठकन्दलदेशे तूद्दाममौक्तिकदामवत् ।। ५२३ ।। स्कन्धदेशोपरिष्टाच्च, गोशीर्षस्थासकोपमम् । बाहुहृत्पृष्ठभागेषु, विशाल इव चोलकः ।। ५२४ ।। कटिजान्वन्तराले चोत्तरीयमिव विस्तृतम् । पतद् भगवति भेजे, क्षीरोदाद्युदकं तदा ।। ५२५ ।। ॥ पञ्चभिः कुलकम् ॥
स्वामिस्नात्रजलं तच्च भूमावपतदेव हि । श्रद्धया जगृहे कैश्चिन्मेघाम्भश्चातकैरिव ।। ५२६ ॥ क्व नाम प्राप्स्यतेऽस्माभिर्भूयोऽद इति मूर्द्धनि । तत्पयः केचिदमरा, न्युधुर्मरुनरा इव ।। ५२७ ॥ पयसा सिषिचे तेन, साभिलाषैश्च कैश्चन । भूयो भूयो वपुर्देवैर्ग्रष्मार्तैरिव कुञ्जरैः ।। ५२८ ॥ रयेण प्रसरन्मेरुगिरिप्रस्थेषु तत् पयः । अकल्पयन्निर्झरिणीसहस्राणि समन्ततः ।। ५२९ ।। तत् पाण्डके सौमनसे, नन्दने भद्रशालके । उद्याने प्रसृतातुल्यकुल्यालीलामशिश्रियत् ।। ५३० ॥
★ प्रभोः आ + योजनास्येभ्यस्ताः आ || १ ललायलङ्कारः ।
प्रथमं पर्व द्वितीयः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
अच्युतेन्द्रविनिर्मित ऋषभजिन
स्नात्रोत्सवः ।
11900 11