________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥९९ ॥
अच्युतेन्द्र उपादत्त, समं सामानिकादिभिः । कुम्भान् सहस्रमष्टाग्रं, फलानीव स्वसम्पदः ।। ५०२ ।। ते तेषां रेजुरुत्क्षिप्तभुजदण्डाग्रवर्तिनः । उदस्तोन्नालनलिनकोशलक्ष्मीविडम्बिनः ।। ५०३ ।। अच्युतेन्द्रः स्नपयितुमथाऽऽरेभे जगत्पतिम् । आत्मीयमिव मूर्धानं, कलसं नमयन् मनाक् ।। ५०४ ।। अथोच्चैर्वादयामासु किनः केचिदानकान् । गुहाप्रतिरवैरुच्चैर्वाचालितसुराचलान् ।। ५०५ ।। दुन्दुभीस्ताडयामासुरपरे भक्तितत्पराः । मन्थायस्तमहाम्भोधिध्वानश्रीतस्करध्वनीन् ।। ५०६ ॥ उत्तालाः कांस्यतालानि, केचिदास्फालयन् मिथः । पर्याकुलध्वनिस्रोतःकल्लोलाननिला इव ।। ५०७ ॥ अवादयन् केऽपि तारं, भेरीरुन्मुखशालिनीः । ऊर्ध्वलोके जिनेन्द्राज्ञां, सर्वतस्तन्वतीरिव ।। ५०८ ॥ अपूरयन् महानादबहलाः केऽपि काहलाः । नाहेला इव गोशृङ्गाण्यद्रिशृङ्गस्थिताः सुराः ।। ५०९ ।। दुष्टशिष्यानिवोद्धोषहेतवे मुरजान मुहुः । पाणिभिस्ताडयामासुः, केचन त्रिदिवौकसः ।। ५१०॥ असङ्ख्यातागतार्केन्दुमण्डलश्रीविडम्बिनीः । स्वर्णरूप्यमयीर्देवा, झल्लरीः केऽप्यवादयन् ।। ५११ ॥ गण्डै: पीयूषगण्डूषगर्भरिव समुन्नतैः । तारमापूरयामासुः, शङ्खान केऽपि दिवौकसः ।। ५१२ ।। इत्थं विचित्रातोघेषु, वाद्यमानेषु नाकिभिः । अवादकमिवाऽऽतोद्यं, द्यौरासीत् प्रतिशब्दितैः ।। ५१३ ॥ जय नन्द जगन्नाथ !, सिद्धिगामिन् ! कृपार्णव ! । धर्मप्रवर्तकेत्यादि, चारणश्रमणा जगुः ।। ५१४ ।। विचित्रैर्बुवकैः श्लोकैरुत्साहैः स्कन्धकैरपि । गलितैर्वस्तुवदनैर्गधैरपि मनोहरैः ।। ५१५ ।। स्तुति पठित्वा मधुरां, कुम्भान् भुवनभर्तरि । शनैः प्रलोठयामासाऽच्युतेन्द्रः स्वामरैः समम् ।। ५१६ ।। १ टक्काविशेषान् । २ किराताः । ३ वादकजनरहितम् ।
अच्युतेन्द्रविनिर्मित ऋषभजिनस्नात्रोत्सवः ।
।। ९९ ।।