________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥९८॥
तेऽन्यवर्षधरेभ्योऽम्बुपद्माद्याददिरे तथा । प्रस्पर्धिन इवाऽन्योन्यमेकस्मिन् कर्मणीरिताः ॥ ४८८ ॥ अगृह्णन्नखिलक्षेत्रवैताळ्यविजयेष्वपि । अम्भोऽम्भोजादिकं तत्राऽतृप्ताः स्वामिप्रसादवत् ।। ४८९ ।। वक्षारकगिरिभ्योऽपि, ते पवित्रं सुगन्धि च । तत् तदाददिरे वस्तु, तदर्थमिव सञ्चितम् ।। ४९० ॥ देवोत्तरकुरुभ्योऽपि, पूरयामासुरम्भसा । स्वमिव श्रेयसा तेऽथ, कलसानलसेतराः ।। ४९१ ।। भद्रशाले नन्दने च, सौमनसेऽथ पाण्डके । जगूहुः सर्वं तुवरगोशीर्षचन्दनादि ते ॥४९२ ॥ गन्धकारा इवैकत्र, गन्धद्रव्यं जलानि च । मेलयित्वा समाजग्मुर्मक्षु ते मेरुमूर्द्धनि ।। ४९३ ॥ सामानिकानां दशभिः, सहौस्तच्चतुर्गुणैः । आत्मरक्षस्त्रायस्त्रिशैस्त्रयस्त्रिशन्मितैस्तथा ।। ४९४ ॥ तिसृभिः परिषद्भिश्च, चतुर्भिर्लोकपालकैः । सप्तभिश्च महानीकैरनीकेशैश्च सप्तभिः ।। ४९५ ॥ आरणाच्युतकल्पेन्द्रः, सर्वतः परिवारितः । भगवन्तं स्नपयितुं, ततः शुचिरुपास्थित ।। ४९६ ॥
॥त्रिभिर्विशेषकम् ।। ततः कृतोत्तरासङ्गो, निःसङ्गाभक्तिरच्युतः । उन्निद्रपारिजातादिपुष्पाञ्जलिमुपाददे ॥ ४९७ ॥ अस्तोकधूपधूमेन, धूपायित्वा सुगन्धिना ।मुमोच त्रिजगद्भर्तुः, पुरस्तं कुसुमाञ्जलिम् ।। ४९८ ॥ देवैरानिन्यिरे गन्धाम्भस्कुम्भाः स्रग्भिरर्चिताः । स्मयमाना इव स्वामिसान्निध्योद्भूतया मुदा ॥ ४९९ ।। चकासामासुरास्यस्थैस्ते पौर्मुखरालिभिः । अधीयाना इव स्वामिस्नात्रमङ्गलमादिमम् ।। ५०० ॥ अलक्ष्यन्त च ते कुम्भाः, स्वामिस्नपनहेतवे । पातालतः समायाताः, पातालकलशा इव ॥ ५०१ ।। १ जलकमलादिकम् । २ आलस्यरहिताः ।
अच्युतेन्द्र विनिर्मित ऋषभजिनस्नात्रोत्सवः ।
।।९८ ।।