________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
॥ ९५ ॥
श्रीऋषभस्वामिचरितम् ।
चतुःषष्ट्या सहस्रैः स, सामानिकदिवौकसाम् । त्रयस्त्रिशित्रायस्त्रिशैश्चतुर्मिर्लोकपालकैः ।। ४४६ ।। पञ्चभिश्चण्यदेवीभिः, पर्षद्भिस्तिसृभिस्तथा । सप्तभिश्च महानीकैस्तदधीशैश्च सप्तभिः ॥ ४४७ ॥ प्रतिदिशं चतुःषष्ट्या, सहस्रैरात्मरक्षिणाम् । वृतोऽपरैरप्यसुरकुमारैः परमर्द्धिभिः ।। ४४८ ।। पञ्चयोजनशत्युच्चं, महाध्वजविभूषितम् । पञ्चाशतं सहस्राणि, योजनानि तु विस्तृतम् ।। ४४९ ।।। विमानमाभियोग्येन, सद्यो देवेन निर्मितम् । अधिरुह्याऽचलत् स्वामिजन्मोत्सवविधित्सया ॥ ४५० ॥ सङ्क्षिप्य शक्रवन्मार्गे, विमानं चमरासुरः । जगाम मेरुशिखरं, स्वाम्यागमपवित्रितम् ।। ४५१ ॥ बलिश्च बलिचञ्चाया, नगर्या असुरेश्वरः । घण्टां घोषयता तारं, प्राग् महौघस्वराभिधाम् ।। ४५२ ।। महाद्रुमेण सेनान्या, सामानिकदिवौकसाम् । षष्ट्या सहजैराहूतैरारक्षैश्च चतुर्गुणैः ।। ४५३ ।। त्रायस्त्रिंशादिभिश्चाऽपि, वृतश्चमरवत् सुरैः । जगामामन्दमानन्दमन्दिरं मन्दराचलम् ।। ४५४ ॥
॥त्रिभिर्विशेषकम् ॥ नागेन्द्रो धरणो मेघस्वराघण्टाप्रताडनात् । पत्तिसेनाधिपतिना, भद्रसेनेन बोधितैः ।। ४५५ ॥ षट्सामानिकसहस्यात्मरक्षैस्तच्चतुर्गुणैः । षड्भिश्च पट्टदेवीभिर्वृतोऽन्यैरपि पन्नगैः ।। ४५६ ।। योजनानां सहस्राणि, पञ्चविंशानि विस्तृतम् । सार्द्धद्वियोजनशतीतुङ्गेन्द्रध्वजभूषितम् ।। ४५७ ।। विमानरत्नमारुह्य, भगवद्दर्शनोत्सुकः । मन्दराचलमूर्धानमाससाद क्षणादपि ॥ ४५८ ।।
॥चतुर्भिः कलापकम् ।।
रिन्द्राः ।
॥ ९५॥