________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।९६ ॥
भूतानन्दोऽपि नागेन्द्रो, घण्टा मेघस्वरां घ्नता । पत्त्यनीकेशदक्षेणाहूतैः सामानिकादिभिः ।। ४५९ ।। वृतो विमानमारुह्याभियोगिकसुरोद्भवम् । जगाम त्रिजगन्नाथसनाथं मन्दराचलम् ।। ४६० ।। (युग्मम्) इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । सुपर्णानां वेणुदेवो, वेणुदारी च वासवौ ।। ४६१ ।। इन्द्रावग्निकुमाराणामग्निशिखाग्निमाणवौ । समीरणकुमाराणां, वेलम्बाख्यप्रभञ्जनौ ।। ४६२ ।। स्तनितानां सुघोषश्च, महाघोषश्च नायकौ । तथोदधिकुमाराणां, जलकान्तजलप्रभौ।। ४६३ ।। पूर्णो विशिष्टश्च द्वीपकुमाराणां पुरन्दरौ । तथैव दिक्कुमाराणाममितामितवाहनौ ।। ४६४ ।। व्यन्तरेषु कालमहाकालौ पिशाचवासवौ । सुरूपः प्रतिरूपश्च, तथा भूतपुरन्दरौ ।। ४६५ ।। यक्षराजौ पूर्णभद्रो, माणिभद्रश्च नामतः । इन्द्रौ भीममहाभीमनामानौ रक्षसां पुनः ।। ४६६ ।। किन्नरः किम्पुरुषश्च, किन्नराणामधीश्वरौ । तथा सत्पुरुषमहापुरुषौ किम्पुरुषपौ ।। ४६७ ॥ अतिकायमहाकायौ, महोरगपुरन्दरौ । गीतरतिर्गीतयशा, गन्धर्वाणां तु वासवौ ॥ ४६८ ।। तथैवाऽप्रज्ञप्तिपञ्चप्रज्ञप्त्यादीनां षोडश । व्यन्तराष्टनिकायानां, वज्रिणः समुपाययुः ।। ४६९ ।। तत्राऽप्रज्ञप्तीनामिन्द्रौ, सन्निहितः समानकः । धाता विधाता च पञ्चप्रज्ञप्तीनां त्वधीश्वरौ ।। ४७० ।। ऋषिवादितकानां तु, ऋषिश्च ऋषिपालकः । तथा भूतवादितानामीश्वरोऽथ महेश्वरः ।। ४७१ ।। क्रन्दितानां पुनरिन्द्रौ, सुवत्सकविशालकौ । महाक्रन्दितकानां तु, हासहासरती हरी ।। ४७२ ।। कुष्माण्डानां पुनः श्वेतमहाश्वेतपुरन्दरौ । पवकपवकपती, पावकानां तु वासवौ ।। ४७३ ॥ ज्योतिष्काणामसङ्ख्यातौ, चन्द्रादित्यावुपेयतुः । इतीन्द्राणां चतुःषष्टिराययौ मेरुमूर्द्धनि ।। ४७४ ।।
रिन्द्राः ।
|| ९६ ॥