________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ९४ ।।
अत्रान्तरे महाघोषाघण्टानादप्रबोधितैः । अष्टविंशतिविमानलक्षवास्यमरैर्वृतः ॥ ४३१ ।। ऐशानकल्पाधिपतिः, शूलभृद् वृषवाहनः । पुष्पकाभियोग्यकृते, विमाने पुष्पके स्थितः ।। ४३२ ॥ दक्षिणेनैशानकल्पमुत्तीर्णस्तिर्यगध्वना । अधिनन्दीश्वरमुदक्पूर्वे रतिकराचले ।। ४३३ ॥ विमानमुपसंहृत्य, सौधर्मेन्द्र इव द्रुतम् । आगात् सुमेरुशिरसि, भक्त्या भगवदन्तिकम् ।। ४३४ ॥ विमानद्वादशलक्षीवासिभिस्त्रिदशैर्वृतः । सनत्कुमारः सुमनोविमानस्थः स चाऽऽययौ ।। ४३५ ।। विमानलक्षाष्टकजैर्महेन्द्रोऽप्यन्वितः सुरैः । श्रीवत्सेन विमानेन, मनसेवाऽऽययौ द्रुतम् ॥ ४३६ ॥ चतुर्विमानलक्षस्थैर्वृतो ब्रह्माऽपि नाकिभिः । नन्द्यावर्तविमानेन, स्वामिनोऽभ्यर्णमाययौ ॥ ४३७ ।। आगाद् विमानपञ्चाशत्सहस्रीवासिभिः सुरैः । कामगवविमानेन, लान्तकोऽपि जिनान्तिकम् ।। ४३८ ॥ चत्वारिंशत्सहस्राणां, विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ ४३९ ।। सहस्रारः सह सुरैः, षड्विमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ।। ४४० ॥ विमलेन विमानेनाऽऽनत-प्राणतवासवः । चतुर्विमानशतजैः, सुरैः सह समाययौ ।। ४४१ ॥ आरणाच्युतराजोऽपि, विमानत्रिशतीसुरैः । तत्राऽऽगात सर्वतोभद्रविमानेनाऽतिरंहसा ।। ४४२ ।। रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलस्तदा ।। ४४३ ।। पुर्यां चमरचञ्चायां, सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्णश्चमरासुरः ॥४४४ ॥ जिनजन्मावधेत्विा , लोकज्ञप्त्यै द्रमेण च । पत्त्यनीकाधिपेनौघस्वरां घण्टामवादयत् ।। ४४५ ।।
रिन्द्राः ।
।। ९४ ॥