________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ९३ ॥
नाभिसूनोः प्रतिच्छन्दं, विदधे मघवा ततः । देव्याः श्रीमरुदेवायाः, पार्श्वे तं च न्यवेशयत् ।। ४१६ ॥ स चक्रे पञ्चधाऽऽत्मानं पञ्चशक्रास्ततोऽभवन् । तस्याऽर्हा स्वामिनो भक्तिर्नैकाङ्गैः कर्त्तुमीश्यते ॥ ४१७ ॥ एकः सङ्क्रन्दनस्तत्र, पुरोभूय प्रणम्य च । भगवन्ननुजानीहीत्युदित्वा प्रश्रयाश्रितम् ॥ ४१८ ॥ गोशीर्षचन्दनाक्ताभ्यां पाणिभ्यां भुवनेश्वरम् । मूर्त्तिस्थमिव कल्याणं, कल्याणीभक्ति राददे ।। ४१९ ॥ जगत्तापापनोदैकातपत्रस्य जगत्पतेः । आतपत्रं दधौ मूर्द्धन्येकः शक्रस्तु पृष्ठगः ।। ४२० ॥ स्वामिनः पार्श्वयोरन्यौ, बाहुदण्डाविव स्थितौ । बिभराञ्चक्रतुश्चारुचामरे चाऽमरेश्वरौ ।। ४२१ ॥ दम्भोलिदण्डं बिभ्राणो, वल्गन् द्वास्थाग्रणीरिव । अग्रेसरः शुनासीरो, बभूवाऽन्यो जगत्पतेः ।। ४२२ ॥ वृताः सुरैर्जयजयेत्येकरावीकृताम्बरैः । उत्पेतुरम्बरेणेन्द्रा, अम्बरामलचेतसः ।। ४२३ ॥ उत्कण्ठितानां देवानां, निपेतुर्भगवत्तनौ । सुधासरस्यां तृषिताध्वगानामिव दृष्टयः ।। ४२४ ।। प्रभोस्तदद्भुतं रूपं द्रष्टुं प्रष्ठा दिवौकसः । पृष्ठवर्त्तीनि नेत्राणि, कामयामासुरात्मनः ।। ४२५ ।। अतृप्ताः स्वामिनं द्रष्टुममराः पारिपार्श्विकाः । नाशकन्नन्यतो नेतुं, नयने स्तम्भिते इव ।। ४२६ ॥ अनुगास्तु सुरा द्रष्टुं प्रभुमग्रे यियासवः । पर्यस्यन्तो न हि निजं, मित्रस्वाम्याद्यजीगणन् ॥ ४२७ ॥ हृदयान्तरिवाऽर्हन्तं, हृदयद्वारि धारयन् । दिवौकसामधिपतिः प्राप मेरुमहीधरम् ।। ४२८ ।। तत्रान्तः पाण्डकवनं, चूलिकां दक्षिणेन तु । अतिपाण्डुकम्बलं, शिलायाममलत्विषि ॥ ४२९ ! सिंहासनेऽर्हत्स्नात्रार्हे, निजाङ्कस्थापितप्रभुः । सहर्षं न्यसदत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ४३० ॥ १ विनयसहितम् । २ इन्द्रः । पार्श्वकाः । ३ एतदाख्यायां शिलायाम् ।
प्रथमं पर्व
द्वितीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
सौधर्मेन्द्रा
गमनम् ।
॥ ९३ ॥