________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ९२ ।।
द्वीपाम्भोधीनसङ्ख्यातान्, वेगेनोल्लङ्घ्य वायुवत् । अधिनन्दीश्वरद्वीपं तद् विमानं समापतत् ॥ ४०१ ।। तत्र दक्षिणपूर्वस्मिन् गत्वा रतिकराचले । सञ्चिक्षेप विमानं तदिन्द्रो ग्रन्थं सुधीरिव ॥ ४०२ ॥ समुल्लवं समुल्लङ्घ, ततोऽर्वाग् द्वीपसागरान् । ततोऽपि सङ्क्षिपंस्तच्च, विमानं क्रमयोगतः ॥ ४०३ ।। जम्बूद्वीपाSभिधे द्वीपे भरतार्द्धे तु दक्षिणे । आदितीर्थकृतो जन्मभवनं प्राप वासवः ।। ४०४ ॥ अथ तेन विमानेन, स्वामिनः सूतिकागृहम् । स प्रदक्षिणयामास, सुमेरुमिव भास्करः ।। ४०५ ।। उदक्प्राच्यां तु ककुभि स पूर्वककुभः प्रभुः । अस्थापयत् तद् विमानं, निधानं धामकोणवत् ॥ ४०६ ॥ ततो विमानादुत्तीर्य, मानादिव महामुनिः । प्रसन्नमानसः शक्रो, जगाम स्वामिसन्निधौ । ४०७ ॥ प्रभुमालोकमात्रेऽपि प्रणनामाऽमराग्रणीः । उपायनं हि प्रथमं प्रणामः स्वामिदर्शने ॥ ४०८ ॥ ततः प्रदक्षिणीकृत्य, भगवन्तं समातरम् । प्रणनाम पुनः शक्रो, भक्तौ न पुनरुक्तता ।। ४०९ ॥ मूर्ध्नि बद्धाञ्जलिर्मूर्द्धाभिषिक्त स्त्रिदिवौकसाम् । भक्तिमान् स्वामिनीमेवं, मरुदेवामवोचत ।। ४१० ॥ कुक्षौ रत्नधरे ! देवि !, जगद्दीपप्रदायिके ! । नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ।। ४११ ।। त्वमेवाऽमोघजन्माऽसि त्वमेवोत्तमलक्षणा । पुत्रिणीषु त्वमेवाऽसि, पवित्रा भुवनत्रये ।। ४१२ ।। धर्मोद्धरणधौरेयच्छन्नमोक्षाध्वदर्शकः । प्रथमस्तीर्थनाथोऽयं, भगवान् सुषुवे यया ।। ४१३ ।। अहं सौधर्मदेवेन्द्रो, देवि ! त्वत्तनुजन्मनः । अर्हतो जन्ममहिमोत्सवं कर्तुमिहाऽऽगमम् ।। ४१४ ।। भवत्या नैव भेतव्यमित्युदीर्य दिवस्पतिः । अवस्वापनिकां देव्यां, मरुदेव्यां विनिर्ममे ।। ४१५ ।। १ एतदाख्यां निद्राम् ।
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभ
स्वामिचरितम् ।
सौधर्मेन्द्रा
गमनम् ।
॥ ९२ ॥