________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥९०॥
अष्टनामग्रदेवीनां, प्राच्यामध्यसनानि तु । सदृशाकारधारीणि, सोदराणीव जज्ञिरे ।। ३७२ ।। दिशि दक्षिणपूर्वस्यामभ्यन्तरसभासदाम् । भद्रासनसहस्राणि, द्वादशाऽऽसन् दिवौकसाम् ॥ ३७३ ।। आसनानि दक्षिणस्यामासन् मध्यसभासदाम् । चतुर्दशानां दिविषत्सहस्राणां क्रमेण तु ।। ३७४ ।। दक्षिणपश्चिमायां तु, देवानां बाह्यपर्षदः । षोडशानां सहस्राणामासीदासनधोरणी ।। ३७५ ॥ दिशि प्रतीच्यां सप्तानामनीकपतिनाकिनाम् । सप्तासनान्येकबिम्बपतितानीव रेजिरे ।। ३७६ ।। चतुरशीतिः सहस्राण्यासनान्यात्मरक्षिणाम् । भानीव मेरुं परितः, शक्रं प्रतिदिशं बभुः ।। ३७७ ।। परिपूर्ण विमानं तद्, विरचय्याऽऽभियोगिकाः । देवा विज्ञपयामासुः, स्वामिने त्रिदिवौकसाम् ।। ३७८ ॥ पुरन्दरोऽपि तत्कालं, विचक्रे रूपमुत्तरम् । नैसर्गिकी हि भवति, धुसदां कामरूपिता ।। ३७९ ।। महिषीभिः सहाऽथभिर्दिक्श्रीभिरिव वासवः । गन्धर्वनाट्यानीकाभ्यां, दर्श्यमानकुतूहलः ।। ३८० ।। ततः प्रदक्षिणीकुर्वन, पूर्वसोपानवर्त्मना । आरुरोह विमानं तन्निजं मानमिवोन्नतम् ।। ३८१ ।। सहस्राक्षः सहस्राङ्ग, इव माणिक्यभित्तिषु । सङ्क्रान्तमूर्तिरध्यास्त, प्राङ्मुखः स्वं तदासनम् ।। ३८२ ।। शक्ररूपान्तराणीव, शक्रसामानिकास्तथा । आरुह्योदीच्यसोपानैर्यथाऽऽसनमुपाविशन् ।। ३८३ ॥ प्रविश्याऽपाच्यसोपानपक्ल्याऽन्येऽपि दिवौकसः । स्वस्वासनेषु न्यषदन्, स्वाम्यग्रे नाऽऽसनात्ययः ।।३८४ ॥ सिंहासननिषण्णस्य, पौलोमीभ रग्रतः । दर्पणप्रभृतीन्यष्टमङ्गलान्यष्ट रेजिरे ॥ ३८५ ।। शुशुभे शशमृत्पाण्डु, पुण्डरीकं बिडौजसः । हंसाविवोपसर्पन्तौ, धूयमानौ च चामरौ ।। ३८६ ।। १ आसनपरावृत्तिः । २ श्वेतच्छ्त्रम् ।
सौधर्मेन्द्रागमनम।
९०॥