________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ ८९ ॥
आसंस्तस्य विमानस्य, तिस्रः सोपानपतयः । गिरेर्हिमवतो नद्य, इव कान्तितरङ्गिताः ।। ३५७ ॥ तासां पुरस्ताद् विविधवर्णरत्नमयानि च । तोरणानि त्रिधाभूतशक्रधन्वश्रियं दधुः ।। ३५८ ।। चन्द्रबिम्बवदादर्शवदालिङ्गिमृदङ्गवत् । दीपमल्लीवदस्यान्तः, समवृत्ता रराज भूः ।। ३५९ ॥ न्यस्तरत्नशिलारश्मिपटलैर्विरलेतरैः । भित्तिचित्रोपरितिरस्करणीरिव सा न्यधात् ।। ३६० ।। अभूत् तन्मध्यतः प्रेक्षामण्डपो रत्ननिर्मितः । अप्सरोनिर्विशेषाभिः, पाञ्चालीभिर्विभूषितः ।। ३६१ ।। मण्डपस्य च तस्यान्तश्चारुमाणिक्यनिर्मिता । बभूव पीठिकोन्निद्रपङ्कजस्येव कर्णिका ॥३६२ ।। चकासामास विष्कम्भायामयोरष्टयोजना । सा चतुर्योजना पिण्डे, शय्येव मघवैश्रियः ।। ३६३ ।। रेजे तस्या उपर्येकं, रत्नसिंहासनं महत् । अशेषज्योतिषां सारं, पिण्डयित्वेव निर्मितम् ।। ३६४ ॥ तस्योपरिष्टाद् विजयदुष्यं दूष्येतर,यभात् । विचित्ररत्नखचितं, निचिताम्बरमंशुभिः ।। ३६५ ।। तस्य मध्ये कर्ण इवेभस्य वज्राडशोऽशुभत् । लीलादोलानिभं लक्ष्म्या, मुक्तादाम च कुम्भिकम् ।। ३६६ ॥ तदर्धायामिभिर्मुक्तादामभिश्चार्धकुम्भिकैः । पार्श्वगैर्दाम रेजे तद्, गङ्गा नद्यन्तरैरिव ।। ३६७ ॥ तत्संस्पर्शसुखलोभादिव स्खलितगामिभिः । मन्दं मन्दमदोल्यन्त, तानि प्राच्यादिवायुभिः ।। ३६८ ।। तदन्तः सञ्चरन् वायुश्चक्रे श्रुतिसुखं स्वरम् । चाटुकार इवेन्द्रस्य, गायन्निव यशोऽमलम् ।। ३६९ ॥ तत्सिंहासनमाश्रित्य, वायव्योत्तरयोर्दिशोः । दिशि चोत्तरपूर्वस्या, सामानिकदिवौकसाम् ।। ३७० ॥ चतुरशीतिसहस्रसङ्ख्यानामभवन् क्रमात् । भद्रासनानि तावन्ति, धुश्रीणां मुकुटा इव ।।३७१ ।। १ मल्लिकाजातिविशेषः । २ जवनिकाः । ३ पुत्तलिकाभिः । ४ दैर्घ्यविस्तारयोः । ५ इन्द्रश्रियः ।
सौधर्मेन्द्रागमनम् ।
।। ८९॥