________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ८८ ॥
द्वात्रिंशति विमानानां लक्षेषु स समुच्छलन् । तालुनीवाऽनुरणनरूपः शब्दो व्यजृम्भत ।। ३४४ ।। देवाः प्रमत्तव्यासक्तास्तेन शब्देन मूर्च्छता । किमेतदिति सम्भ्रान्ताश्चक्रिरे सावधानताम् ।। ३४५ ।। उद्दिश्य तानवहितानु, सेनानीः सोऽथ वज्रिणः । वचसा मेघनिर्घोषगम्भीरेणाऽभ्यधादिति ॥ ३४६ ।। भो भो देवाः ! समस्तान् वः, सदेव्यादिपरिच्छदान् । इत्यादिशत्यनुल्लक्यशासनः पाकशासन ।। ३४७ ।। जम्बूद्वीपस्थ भरत दक्षिणार्द्धस्य मध्यतः । नाभेः कुले कुलकृतो, जज्ञे प्रथमतीर्थकृत् ॥ ३४८ ॥ तत्र तज्जन्मकल्याणमहोत्सवविधित्सया । गन्तुं त्वरध्वमस्मद्वत्, कृत्यं नाऽतः परं परम् ॥ ३४९ ॥ प्रत्यर्हन्तं रागतः केऽप्यभिवातमिवैणकाः । केऽपि शक्राज्ञयाऽऽकृध, अयस्कान्तेन लोहवत् ॥ ३५० ।। दारैरुल्लासिताः केऽपि, यादांसीव नदीरयैः । केचित् सुहृद्भिराकृष्टा, गन्धा गन्धवहैरिव ।। ३५१ ।। एयुर्विमानै रुचिरैर्वाहनैरपरैरपि । द्यामन्यामिव कृर्वाणा, गीर्वाणाः शक्रसन्निधौ ।। ३५२ ।।
॥ त्रिभिर्विशेषकम् ॥ आदिशत् पालकं नाम, वासवोऽप्याभियोगिकम् । असम्भाव्यप्रतिमानं विमानं क्रियतामिति ॥ ३५३ ॥ तत्कालं पालकोऽपीशनिदेशपरिपालकः । रत्नस्तम्भसहस्रांशुपूरपल्लविताम्बरम् ।। ३५४ ।। गवाक्षैरक्षिमदिव, दीर्घेर्दोष्मदिव ध्वजैः । वेदीभिर्दन्तुरमिव, कुम्भैः पुलकभागिव ।। ३५५ ।। पञ्चयोजनशत्युच्चं, विस्तारे लक्षयोजनम् । इच्छानुमानगमनं, विमानं पालकं व्यधात् ।। ३५६ ।। ॥ त्रिभिर्विशेषकम् ॥
★ मूर्च्छिताः । १ सावधानान् । २ लोहचुम्बकेन । ३ जलजन्तवः ।
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामि
चरितम् ।
सौधर्मेन्द्रा
गमनम् ।
11 22 11