________________
त्रिषष्टि
शलाकापुरुषचरिते
।। ८७ ।।
जानूत्तमाङ्गकमलसंस्पृष्टपृथिवीतलः । नत्वा रोमाञ्चितोऽर्हन्तमिति स्तोतुं प्रचक्रमे ।। ३२९ ॥ तुभ्यं नमस्तीर्थनाथ !, सनाथीकृतविष्टप ! । कृपारससरिन्नाथ!, नाथ ! श्रीनाभिनन्दन ! ॥ ३३० ॥ मत्यादिभिस्त्रिभिर्ज्ञानैः सहोत्थैर्नाथ ! शोभसे । नन्दनादिभिरुद्यानैरिव मेरुमहीधरः ।। ३३१ ।। देवेदं भारतं वर्षं, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्यमौलिरत्नेन यदलङिक्रयते त्वया ॥ ३३२ ॥ असौ त्वज्जन्मकल्याणमहोत्सवपवित्रितः । आसंसारं जगन्नाथ !, वन्द्यस्त्वमिव वासरः ॥ ३३३ ॥ नारकाणामपि सुखं, जज्ञे त्वज्जन्मपर्वणा । अर्हतामुदयः केषां न स्यात् सन्तापहारकः ? ।। ३३४ ॥ जम्बूद्वीपस्य भरतक्षेत्रे नष्ये निधानवत् । त्वदाज्ञाबीजकेनाऽपः, परं धर्मः प्रकाशताम् ।। ३३५।। त्वत्पाद प्राप्य संसारं तरिष्यन्ति न केऽधुना ? । अयोऽपि यानपात्रस्थं पारं प्राप्नोति वारिधेः ।। ३३६ ।। कल्पवृक्ष इवाऽवृक्षे, नदीस्रोतो मराविव । भगवन्नवतीर्णोऽसि, लोकपुण्येन भारते ।। ३३७ ॥ भगवन्तमिति स्तुत्वा प्रथमस्वर्गनायकः । पदात्यनीकाधिपतिं नैगमेषिणमादिशत् ।। ३३८ ॥ जम्बूद्वीपस्थभरतदक्षिणार्द्धस्य मध्यमे । भूमिभागे कुलभृतो, नाभेः पल्याः श्रियानिधेः ॥ ३३९ ।। नन्दनो मरुदेवाया, जज्ञे प्रथमतीर्थकृत् । आहूयन्तां सुराः सर्वे, तज्जन्मस्नात्रहेतवे ।। ३४० ।। ततश्च योजनपरिमण्डलामद्भुतस्वनाम् । स त्रिरुल्लालयन् घण्टां सुघोषाख्यामवादयत् ।। ३४१ ।। सर्वापरविमानानां, नेदुर्घण्टाः सुघोषया । समं मुखरगायन्या, गायन्य इव पक्षगाः ।। ३४२ ।। घण्टानां निस्वनस्तासां, दिङ्मुखोत्यैः प्रतिस्वनैः । सूनुभिः स्वप्रतिच्छन्दैः सतां कुलमिवाऽवृधत् ।। ३४३ ॥
★ द्वीपीयभ, द्वीपस्य भ । निधिः । 9 अग्रसरगायक्या ।
प्रथमं पर्व
द्वितीयः
सर्गः श्रीऋषभ
स्वामिचरितम् ।
| सौधर्मेन्द्रागमनम् ।
11 2011