________________
त्रिषटि
शलाका
पुरुषचरिते
॥ ८६ ॥
रक्षापोट्टलिकां वह्निभस्मना तेन ता व्यधुः । तपोर्महामहिम्नोरप्यासां भक्तिक्रमः स हि ।। ३१५ ॥ पर्वतायुर्भवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलकौ ।। ३१६ ।। सूतिकाभवने तस्मिन्, मरुदेवां विभुं च ताः । शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ।। ३१७ ।। तदा शाश्वतघण्टानां, स्वर्गेषु युगपद् ध्वनिः । बभूव लग्नवेलायामातोद्यानामिवोच्चकैः ।। ३१८ ॥ वासवानामासनानि, शैलमूलाचलान्यपि । चकम्पिरे तदानीं च, हृदयानि च सम्भ्रमात् ॥ ३१९ ।। ततश्च सौधर्मपतिः, कोपाटोपारुणेक्षणः । ललाटपट्टघटितभकुटीविकटाननः ।। ३२० ॥ अधरं स्फोरयन्नन्तः, क्रोधवह्नेः शिखामिव । उच्छ्रसन्नडिग्रणैकेन, स्थिरीकर्त्तुमिवाऽऽसनम् ॥। ३२१ ॥ कस्योत्क्षिप्तं कृतान्तेन, पत्रमद्येति विब्रुवन् । आदित्सते स्म दम्भोलि, स्वशौण्डीर्यानलानिलम् ।। ३२२ ॥ ॥ त्रिभिर्विशेषकम् ॥
एवं पुरन्दरं प्रेक्ष्य, क्रुद्धकेसरिसोदरम् । मूर्त्तो मान इवाऽनीकपतिर्नत्वा व्यजिज्ञपत् ।। ३२३ ॥ किमावेशः स्वयं स्वामिन्!, पदातौ मयि सत्यपि ? । समादिश जगन्नाथ !, कं मध्नामि तव द्विषम् ? ॥ ३२४ ॥ ततो मनःसमाधानमाधाय विबुधाधिपः । प्रयुज्याऽवधिमज्ञासीज्जन्माऽऽदिमजिनप्रभोः ।। ३२५ ॥ मुदा विगलितक्रोधसंवेगस्तत्क्षणादभूत् । शान्तदावानलो वृष्ट्या, सानुमानिव वासवः ।। ३२६ ॥ घिग् मया चिन्तितमिदं मिथ्यादुष्कृतमस्तु मे । इति ब्रुवाणो गीर्वाणाग्रणीः सिंहासनं जहौ ।। ३२७ ॥ गत्वा पदानि सप्ताऽष्टान्युत्तमाङ्गे निधाय च । द्वितीयरत्नमुकुटश्रीविश्राणकमञ्जलिम् ॥ ३२८ ॥
१ वज्रम् । २ इन्द्रम् ।
प्रथमं पर्व द्वितीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
सौधर्मेन्द्रा
गमनम् ।
॥ ८६ ॥