________________
त्रिषष्टिशलाका
प्रथमं पर्व द्वितीयः
पुरुषचरिते
सर्गः
श्रीऋषभस्वामिचरितम् ।
।। ८५ ।।
नत्वा जिनं जिनाम्बां च, विज्ञपय्य तथैव हि । गायन्त्योऽस्थुर्दीपहस्ता, ईशानादिविदिक्षु ताः ।। ३०० ॥ रुचकद्वीपतोऽप्येयुश्चतस्रो दिक्कुमारिकाः । रूपा रूपाशिका चाऽपि, सुरूपा रूपकावती ।। ३०१ ।। चतुरडलवर्ज ता, नाभिनालं जगत्पतेः । न्यकृन्तन् विदरं चख्नुस्तं च तत्र निचिक्षिपुः ॥ ३०२ ।। विदरं पूरयामासुर्वर्जे रत्नश्च मक्षु ताः । दूर्वया पीठिकाबन्धं, तस्योपरि च चक्रिरे ।। ३०३ ।। जिनजन्मगृहात् पूर्वदक्षिणोत्तरदिक्षु च । विचक्रुस्त्रीणि कदलीगृहाणि श्रीगृहाणि ताः ।। ३०४ ॥ प्रत्येकमेषां मध्ये च, ताः सिंहासनभूषितम् । विचक्रिरे चतुःशालं, विशालं स्वविमानवत् ।। ३०५ ।। ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाऽऽप्तचेटीवद् दत्तबाहवः ।। ३०६ ॥ सिंहासने निवेश्योभावभ्यानञ्जः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव ।। ३०७ ।। अमन्दामोदनिःस्यन्दप्रमोदितदिशा भृशम् । उभावृद्वर्त्तयामासुर्दिव्येनोद्वर्त्तनेन ताः ।। ३०८ ।। नीत्वा ताः प्राक्चतुःशाले, न्यस्य सिंहासने च तौ । स्नपयामासुरम्भोभिः, स्वमनोभिरिवाऽमलैः ॥३०९ ॥ गन्धकाषायवासोभिस्तदङ्गान्यमृजन्नथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ।।३१० ॥ ताभ्यामामोचयामासुर्देवदूष्ये च वाससी । विधुदुद्द्योतसध्यञ्चि, ताश्चित्राभरणानि च ।। ३११ ॥ अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं, भगवन्मातरं च ताः ।। ३१२ ।। गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासुरमरैराभियोगिकैः ।। ३१३ ।। उत्पाद्याऽरणिदारुभ्यां, वह्निमह्नाय तास्ततः । होमं वितेनुर्गोशीर्षचन्दनैरेधसात्कृतैः ।। ३१४ ।। * विवरं । + विवरं । १ विद्युत्प्रकाशसमानानि ।
दिक्कुमारीविहीतऋषभजिनजन्मोत्सवः ।
॥८५||