________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ८४ ।।
वसुन्धरां वितन्वानां, नानालेख्यमयीमिव । जानुदघ्नीं पञ्चवर्णैः, पुष्पैर्वृष्टिं वितेनिरे ।। २८५ ॥ तथैव तीर्थनाथस्य, गायन्त्यो निर्मलान् गुणान् । हर्षप्रकर्षशालिन्यः, स्थाने तस्थुर्यथोचिते ।। २८६ ।। दिक्कुमार्योऽष्ट पौरस्त्यरुचकाद्रिस्थिता अपि । विमानैर्मनसा सार्द्ध, स्पर्द्धमानैरिवाऽऽययुः ।। २८७ ।। ताश्च नन्दोत्तरानन्दे, आनन्दानन्दिवर्द्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ।। २८८ ।। स्वामिनं मरुदेवां च, नत्वाऽऽख्याय च पूर्ववत् । गायन्त्यो मङ्गलान्यस्थुस्ताः प्राग्दर्पणपाणयः ।। २८९ ।। अपाच्यरुचकाद्रिस्थास्तावन्त्यो दिकुमारिकाः । तत्राऽऽययुः प्रमोदेन, प्रतोदेनेव नोदिताः ।। २९० ।। समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।। २९१ ।। जिननाथं तदम्बां च, नत्वा प्राग्वन्निगद्य च । भृङ्गारपाणयस्तस्थुर्गायन्त्यो दक्षिणेन ताः ।। २९२ ।। प्रत्यग्रुचकशैलस्था, अप्यष्टौ दिक्कुमारिकाः । आययुस्त्वरयाऽन्योऽन्यमिव भक्त्या जिगीषवः ।। २९३ ।। इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः ।। २९४ ।। नत्वा जिनं जिनाम्बां च, विज्ञपय्य च पूर्ववत् । तस्थुळजनहस्तास्ता, गायन्त्यः पश्चिमेन तु ।। २९५ ।। उदग्रुचकतोऽप्येयुर्दिक्कुमार्योऽष्ट वेगतः । वातैरिव रथीभूतैरमरैराभियोगिकैः ।। २९६ ॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, श्री हीरित्यभिधानतः ।। २९७ ।। नत्वा जिनं तदम्बां च, कृत्यं चाऽऽख्याय पूर्ववत् । गायन्त्य उत्तरेणाऽस्थुस्तास्तु चामरपाणयः ।। २९८ ।। एयुर्विदिग्रुचकाद्रेश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौत्रामणी तथा ।। २९९ ।। १ जानुप्रमाणाम् । * युः प्रयत्नेन, प्रमोदेनैव चालिताः ।
दिक्कुमारीविहीतऋषभजिनजन्मोत्सवः ।
॥८४॥