________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥८३ ॥
उपभूमि प्रसर्पद्भिर्मन्दं मन्दं समीरणैः । रजोऽपनिन्ये मेदिन्याः, परिचर्याकरिव ।। २७१ ।। चेलक्षेपं च गन्धाम्बु, ववृषे स्तनयिनुभिः । सिक्तबीजवदुच्छासमाससाद च मेदिनी ।। २७२ ।। अथाऽधोलोकवासिन्यः, सद्यः प्रचलितासनाः । दिक्कुमार्यः समाजग्मुरष्ट तत्सूतिवेश्मनि ।। २७३ ।। भोगङ्करा भोगवती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च, पुष्पमाला त्वनिन्दिता ।। २७४ ।। तत्राऽऽदिमं तीर्थकरं, तीर्थकृन्मातरं च ताम् । तास्त्रिः प्रदक्षिणीकृत्य, वन्दित्वा चैवमूचिरे ।। २७५ ।। नमस्तुभ्यं जगन्मातर्जगद्दीपप्रदायिके! । अथै वयमधोलोकवासिन्यो दिक्कुमारिकाः ॥२७६ ।। अवधिज्ञानतो ज्ञात्वा, तीर्थकृज्जन्म पावनम् । तन्महिम्नः करणार्थ, तत्प्रभावादिहाऽऽगताः ।। २७७ ॥ तन्न भेतव्यमित्युक्त्वा, देशे पूर्वोत्तरे स्थिताः । चक्रुः स्तम्भसहस्राङ्क, प्राङ्मुखं सूतिकागृहम् ॥ २७८ ।। ताश्च संवर्त्तवातेन, परितः सूतिकागृहम् । आयोजनमपाहार्पु, शर्कराकण्टकादिकम् ॥२७९ ।। संवर्त्तवातं संहृत्य, भगवन्तं प्रणम्य च । तदासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ।। २८० ।। तथैवाऽऽसनकम्पेन, ज्ञात्वा मेरुगिरिस्थिताः । ऊद्धर्वलोकनिवासिन्योऽप्यष्टेयुर्दिक्कुमारिकाः ।। २८१ ।। मेघङ्करा मेघवती, सुमेघा मेघमालिनी । सुवत्सा वत्समित्रा च, वारिषेणा बलाहिका ।। २८२ ।। जिनं जिनजननी च, नत्वा नुत्वा तथैव ताः । नभस्यवन्नभस्यभ्रपटलं द्राग विचक्रिरे ।। २८३ ।। ताभिः सुगन्धितोयेनाऽऽयोजनं वेश्मपार्श्वतः । समन्ततो रजोऽशामि, कौमुद्येव तमस्ततिः ।। २८४ ।। १ मेधैः । २ भाद्रपदमासवत् ।
दिक्कुमारीविहीतऋषभजिनजन्मोत्सवः ।
।। ८३॥