________________
त्रिषष्टिशलाकापुरुषचरिते
| प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। ८२ ॥
मन्दा सहजभावेनाऽप्यस्या मन्दतराऽभवत् । गतिर्मतङ्गजस्येव, मदावस्थामुपेयुषः ।। २५६ ।। तस्यास्तदानीं ववृधे, लावण्यश्रीविशेषतः । प्रज्ञेवोषसि विदुषो, ग्रीष्मे वेलेव वारिधेः ॥२५७ ।। त्रैलोक्यैकमहासारं, सा गर्भ धारयत्यपि । नाऽखिद्यत प्रभावोऽयमर्हतां गर्भवासिनाम् ॥२५८ ।। उदरे मरुदेवायाः, शनकैः शनकैस्ततः । निगूढं ववृधे गर्भः, कन्दोऽन्तरवनेरिव ।। २५९ ।। स्वामिन्यभूत् तत्प्रभावाद्, विशेषाद् विश्ववत्सला । शीतमप्यम्बु शीतं स्यात्, क्षिप्तया हिममृत्स्नया ॥२६०॥ गर्भावतीर्णभगवत्प्रभावान्नाभिरप्यभूत् । पितृतोऽप्यधिकं मान्यः, सर्वेषां युग्मधर्मिणाम् ।।२६१ ।। तत्प्रभावाद् विशिष्टानुभावाः कल्पद्रवोऽभवन् । शरत्कालवशादिन्दुकरा स्युरधिकश्रियः ।। २६२ ॥ तत्प्रभावाच्छान्ततिर्यग्नृवैरा भूरभूच्च सा । सर्वतोऽपि हि शाम्यन्ति, सन्तापाः प्रावृडागमात् ।।२६३ ।। ततो नवसु मासेषु, दिनेष्वर्धाष्टमेषु च । गतेषु चैत्रबहुलाष्टम्यामर्द्धनिशाक्षणे ।।२६४ ।। उच्चस्थेषु ग्रहेष्विन्दावुत्तराषाढया युते । सुखेन सुषुवे देवी, पुत्रं युगलधर्मिणम् ।। २६५ ।। दिशः प्रसादमासेदुस्तदानीं सम्मदादिव । लोकः क्रीडापरो जज्ञे, धुवासीव महामुदा ।। २६६ ॥ जरायुरक्तप्रभृतिकलङ्कपरिवर्जितः । उपपादशय्योद्भूत, इव देवो रराज सः ॥२६७ ॥ तदा कृतजगन्नेत्रचमत्कारोऽन्धकारभित् । बभूव विधुदुद्द्योत, इवोझ्योतो जगत्त्रये ॥ २६८ ॥ किङ्करानाहतोऽप्युच्चैर्मेघगम्भीरनिस्वनः । स्वयं द्यौरिव हर्षेण, ननाद दिवि दुन्दुभिः ।। २६९ ।। अप्राप्तपूर्विणां सौख्यं, नारकाणामपि क्षणम् । समजायत तिर्यग्-नृ-सुराणां किं पुनस्तदा ? ।। २७० ।। १ मृत्तिकया । २ चैत्रकृष्णाष्टम्याम् । * उत्तराषाढया युक्ते, चन्द्रे चन्द्रमिवेन्द्रदिक् । ३ देव इव ।
ऋषभप्रभोजन्म।
||८२॥