________________
श्री वर्द्धमान जिन देशना
॥८९॥
श्रीधनसार कथा।।
繼蹤器端端器端發器端器肇端继榮端端端端端端端端端一端端端
योमन्यतीर्थिका यान्ति, गति तीव्रतपोजुषः । उपासका सोमिलवत्-तां विराद्धव्रता अपि ॥३७॥ मासे मासे हि ये बालाः, कुशाग्रेणेव भुञ्जते । सन्तुष्टोपासकाना ते, कला नाहन्ति षोडशीम् ॥३८॥ अप्यद्भुततपोनिष्ठ-स्तामलिः पूरणोऽपि वा । सुश्रावकोचितगते-रतिहीनां गतिं ययौ ॥३९॥ आशापिशाचविवशं कुरु मा स्म चेतः, सन्तोषमुबह परिग्रहनिग्रहेण । श्रद्धां विधेहि यतिधर्मधुरीणताया-मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥४०॥ ]
अथ पंचमं परिग्रहपरिमाणाख्यमणुव्रतं ये नराः पालयन्ति ते शिवसुखं प्राप्नुवन्ति, धन्याश्च ते मनुष्या इहलोकेऽपि श्लाघनीया भवंति, असंतोषेण तु जीवा मथुरानगरीवासिधनसारखदुःखिनो भवंति. तत् श्रुत्वानंदो जिनवरं प्रति भणति 'हे स्वामिन् ! कोऽसौ धनसारश्रेष्ठी ? कथं च सोऽसंतोषेण दुःखी जातः ? स्वामी बदति 'भो श्रमणोपासक ! सावधानमनास्त्वं तस्य दृष्टांतं शृणु ?'
इहैव भरतक्षेत्रे मथुरानगयाँ धनसाराभिधः श्रेष्ठी वसति. स महाधनाढ्योऽस्ति द्वाषष्टिस्वर्णकोटयस्तस्य गृहे संति, परं तिलतुषमात्रमपि धनं स कदाचिदपि धर्मकार्ये न ददाति. तदा लोकस्तस्य कृपणश्रेष्ठीति नाम कृतं.
लक्ष्मीद्विधा भवति, एका पुण्यानुबंधिनी द्वितीया च पापानुबंधिनी; यस्य गृहे पुण्यानुवंधिनी लक्ष्मीरस्ति स पुमानिह लोके परलोके च सुखी भवति, या च पापानुवंधिनी भवेत् सा तत्स्वामिनं दुःखलक्षेषु पातयति.
अथान्यदास श्रेष्ठी यावद्भमिस्थितानि निधानानि पश्यति, तावत्नान्यंगारसर्पवृश्चिकमकोटकादिमयानि पश्यति. तत
爱器器器蹤影器器樂器器器鉴器聽聽器器器紫器鑑聽器聽說一器聽器
॥९॥