________________
श्री वर्द्धमान जिन देशना
॥९ ॥
是器樂器器器器器器器端器器器器懿號器鉴藥鱗器器器继器端端器器等
श्चिन्तामापन्नो यावत्स तिष्ठति तावदेकेन भृत्येनागत्य तस्मै प्रोक्तं 'भो श्रेष्ठीन् ! तब प्रवहणानि भग्नानि,' तत् श्रुत्वा सोऽत्य
श्रीधनसार न्तं ततो यावत्तिष्ठति तावत्स्थलमार्गगतच्छकटेषु धाटा पतिता तेन श्रुता, ततोऽसावतीवखिनश्चिन्तयति ' हा हा अथ मे *
कथा ॥ कुटुंबनिर्वाहः कथं भविष्यति ?' इति चिन्तातुरोऽसौ कथमपि स्वजनेभ्यो दशलक्षद्रव्यं गृहीत्वा स्वयं प्रवहणे चटितः, परं पूर्वकृतकर्मोदयात्तत्वहणमपि भग्नं, आयुःकर्मयोगेन लब्धफलकोऽसौ समुद्रं ती तीरं प्राप्तश्चिन्तयति 'अरे ! सांप्रतं मम सर्वमपि गतं, हा अथाई किं करोमि ? क्व च गच्छामि ?' इति चिन्तातुरोऽसौ दिवसे भोजनसुखं रात्रौ च निद्रासुखमपि न | प्राप्तवान्. उक्तं च
रूपं जरा सर्वसुखानि तृष्णा, खलेषु सेवा पुरुषाभिमानं । याचा गुरुत्वं गुणमात्मशंसा, चिंता बलं हंति दयां च लक्ष्मीः ॥१॥
अथ द्वितीयदिने वनखंडे परिभ्रमन्नसौ तत्राम्रवृक्षतलोपविष्टं साधुमेकं ददर्श.स साधुः केवलज्ञानमण्डितो विद्याधरादिभिश्च सेव्यमान आसीत. तं साधुं दृष्ट्वा हर्षाद्रोमांचितशरीरो धनसारस्त्रिःपदक्षिणीकृत्य वंदित्वा तस्याग्रे समुपविष्टः, तदा मुनिरपि तं धर्मोपदेशं ददौ. तत् श्रुत्वा स तं पृच्छति 'हे भगवन् ! केन कर्मणा पूर्व ममर्द्धिः प्राप्ता, केन कर्मणा च पश्चात्सा नष्टा, कथं च मम कृपणत्वं संजातं ? तत्सर्वं मयि कृपां विधाय कथयत ?' मुनिरवादीत् 'भो धनसार! एतत्सर्वं पूर्वकर्मविपाकोद्भवं त्वं जानीहि ? तद्यथा
अप्रैव धातकीखंडे व्यंबकाभिधा नगरी वर्तते, तस्यां द्वौ भ्रातरौ वसतःस्म, तयोद्धभ्राता सदा दानं ददाति, परं