________________
श्रीवर्द्ध मान जिनदेशना ॥८८॥
पश्चमव्रत महिमा।
藤義器鑑聽器聽聽器蒸器蹤器凝器蒸蒸蒂蒂蒂蹤器樂器器誘器器端
दीनं जल्पन्ति गायन्ति, नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः, पुमांसो धनिनां पुरः ॥२३॥ न यान्ति वायवो यत्र, नाप्यन्दुमरीचयः । आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः ॥२४॥ येनाशायै ददे स्वाम्यं, तेनात्तं दास्यमात्मनः । आशा दासीकृता येन, तस्य स्वाम्यं जगत्त्रये ॥२५।। नाशा नैसर्गिकी पुसि, या जीर्यति न जीर्यति । उत्पात एव कोऽप्येषा, तस्यां सत्यां कुतः सुखम ॥२६॥ वलयो वलयाः पुंसां, पलितानि स्रजः कृताः। किमन्यन्मण्डनं कृत्वा, कृतार्थाऽऽशा भविष्यति ॥२७॥ प्राप्तेभ्योऽप्यतिरिच्यन्ते, तेऽस्त्यिक्ता य आशया । क्रोडीकरोति यानाशा, ते तु स्वप्नेऽपि दुर्लभाः ॥२८॥ यानर्थान् बहुभिर्यत्नै-रिच्छेत्साधयितुं नरः । अयत्नसिद्धा एवैते, कृते ह्याशानिमीलने ॥२९|| पुण्योदयोऽस्ति चेत् पुंसां, व्यथैवाशापिशाचिका । अथ पुण्योदयो नास्ति, व्यथैवाशापिशाचिका ॥३०॥ अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥३१॥ सुखं सन्तोषपीयूष-जुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीना-मसन्तोषवतां कुतः ॥३२॥ सन्तोषवर्मणि व्यर्था- आशानाराचपतयः । ताः कथं प्रतिरोध्धव्या- इति मा स्माकुलो भव ॥३३॥ वाक्येनकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च, प्राप्तं च परमं पदम् ॥३४॥ तत्सन्त्यजाऽऽशावैवश्यं, मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं, यतिधर्मानुरक्तधीः ॥३५॥ मिथ्याग्भ्यो विशिष्यन्ते, सम्यगदर्शनिनो जनाः । तेभ्योऽपि देशविरता- मितारम्भपरिग्रहाः ॥३६।।
॥८८॥