________________
श्री वर्द्धमान जिन देशना
पञ्चमवन| महिमा॥
॥८७॥
अहो आश्चर्यमुन्मुक्त-सर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कन्ते, धनरक्षापरायणाः ॥९॥ राजतस्करदायाद-वह्नितोयादिभीरुभिः । धनकतानैर्धनिभि-निशास्वपि न सुप्यते ।१०॥ दुर्भिक्षे वा सुभिक्षे वा, वने जनपदेऽपि वा । शङ्काऽऽतकाकुलतया, धनी सर्वत्र दुःखितः ॥११॥ निर्दोषा वा सदोषा वा, सुखं जीवन्ति निर्धनाः । बाध्यन्ते धनिनो लोके, दोषैरुत्पादितैरपि ॥१२॥ अर्जने रक्षणे नाशे, ब्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छ-भल्ललीलां धनं नृणाम् ॥१३॥ धिग्धनं धनवन्तो य-देकामिषजिघृक्षुभिः । स्वजनैरपि बाध्यन्ते, शुनकाः शुनकैरिव ॥१४॥ इत्थमर्थ लभेयाह, रक्षेयं वर्धयेय च । कृतान्तदन्तयन्त्रस्थो-ऽपीत्याशां न त्यजेद् धनी ॥१५॥ पिशाचीव धनाशेयं, यावदुच्छङ्खला भवेत् । तावत् प्रदर्शयेन्नृणां, नानारूपां विडम्बनाम् ॥१६॥ यदीच्छसि सुखं धर्म, मुक्तिसाम्राज्यमेव च । तदा परपरिहारा-देकामाशां वशीकुरु ॥१७॥ स्वर्गापवर्गनगर-प्रवेशप्रतिरोधिनी। अभेद्या वज्रधाराभि-राशैव हि महार्गला ॥१८॥ आशैव राक्षसी पुंसा-माशैव विषमभरी। आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ॥१९॥ ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः। जगत्संमोहजननी, यैराशाऽऽशीविषी जिता ॥२०॥ पापवल्लीं दुःखखानि, सुखाग्नि दोषमातरम् । आशां निराशीकुरुते, यस्तिष्ठति सुखेन सः ॥२१॥ आशादवाग्नेमहिमा, कोऽपि लोकपथातिगः । धर्ममेधं समाधि यो, विध्यापयति तत्क्षणाद् ॥२२॥
SREEEEEEEEEEEEEEEEGetes
॥८
॥
areere